पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१४०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३६
काव्यमाला ।


अत्र शोभाक्रियामुखकं परस्परजननम् ।।

अनाधारमाधेयमेकमनेकगोचरमशक्यवस्त्वन्तरकरणं विशेषः ।

इहाधारमन्तरेणाधेयं न वर्तत इति स्थितावपि यस्तत्परिहारेणाधेय- स्योपनिबन्धः स एको विशेषः । यच्चैकं वस्तु परिमितं युगपदनेकधा- वर्तमानं क्रियते स द्वितीयो विशेषः । यच्च किंचिदारभमाणस्यासंभाव्य- वस्त्वन्तरकरणं स तृतीयो विशेषः । आनुरूप्यपरिहाररूपविरोधप्रस्तावा- दिहोक्तिः । क्रमेण यथा

‘दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् ।
रमयन्ति जगन्ति गिरः कथमिव कवयो न ते वन्द्याः ।


प्रज्ञा प्रज्ञया जायते धनम् । प्रज्ञयै जीवलोकेऽस्मिन्परस्परनिबन्धनम् । अत्र प्रज्ञा- धनयोः स्वरूपस्य परस्परं जननम् । देशकालभेदद्विरोधसमाधि; । शोभाक्रियेति । सैव त्य्ह्त्र. पंरस्परनिमित्तम् । अनाधारमित्यादि । एतदेव व्याचष्टे-इहेस्यादिना । तस्परिहारेणेति । आधारव्यतिरेकेणेत्यर्थः । परिमितभित्यव्यापकम् । व्यापकस्य हि। युगपदनेकत्र स्थितिर्वस्तुसंभविनीति तत्र नालंकारत्वम् । किंचिदिति यत्र यादृग्विवक्षितम्। न केवलमारब्धस्य वस्तुनो निष्पतिर्यावदसंभाव्यस्यापि वस्त्वन्तरस्येत्यत्र तात्पर्यार्थः । तच्च वस्त्वन्तरं चिकीर्षितं भवत्यचिकीर्षितं वा । एवं च “फलान्तरस्य निष्पत्तिश्चिकीर्षावि रहेऽपि या। स विशेषश्चिकीर्षायां प्रसङ्गस्तु ततः पृथक् ’ इत्याद्युक्तयुक्त्या प्रसङ्गादन्यार्थः। प्रसङ्ग इति । प्रसङ्गाख्यमलंकारत्वं न वाच्यम् । न हि चिकीर्षितत्वमचिकीर्षितत्वं वा कश्चिद्विच्छित्तिविशेषो येनालंकारान्तरत्वं स्यात् । यावता ह्यत्रासंभाव्यस्य वस्त्वन्तरस्य विच्छित्तिर्विवक्षिता सा चात्र स्थितेति किं चिकीर्षितवाचिकीर्षितत्वकल्पनेन । तस्मात् ‘अङ्गेषु सान्द्रहरिचन्दनपङ्कचर्चा मार्णालहारवलयादि च पान्थवध्वाः । योऽभूद्दिवा पतिवि- योगविषाददम्भो ज्योत्स्नाभिसारपरिकर्म स नक्तमासीत् ॥’ इत्यत्र हरिचन्दनचर्चादिना न केवलं पतिवियोगविषाददम्भः कृतो यावदभिसारिकापरिकर्मापि कृतमित्यशक्यवस्त्वन्त- रकरणात्मैवायं विशेषः । विशेषाश्चात्र त्रयो न पुनरेकस्त्रिविधः । लक्षणस्य भिन्नत्वात् । उचितस्य तु विशिष्टत्वस्य भावाश्रयाणामपि विशेषत्वम् । गिरामत्र कविस्वभावादन्यत्र भावः । शंभोश्च लोकोत्तरवस्तुसंपादनं वास्तवमेवेति विशेषमत्रान्ये न मन्यन्ते । एतावतैव पुनरस्याभावो न वाच्याः । उदाहरणान्तरेष्वस्य संभवात् । तानि तु यथा--'अङ्गानि चन्द- नरसादपि शीतलानि चन्द्रातपं वमति बाहुरयं यशोभिः । चालुक्यगोत्रतिलक क्व वसत्यसौ


१. ‘प्रवृत्तिनिमित्तम्' ख. २. ‘प्रसंख्यालंकारान्तरं’ ख. ३. ‘यत्रासन्द्वस्य' स्ख, ४. निष्पातिः’ ख. ५. ’अङ्गानि-तथा च' इति ख-पुस्तके त्रुटितम्.