पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१४१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३७
अलङ्कारसर्वस्वम्


प्रासादे सा पथि पथि च सा पृष्ठतः सा पुरः सा
पर्यङ्के सा दिशि दिशि च सा तद्वियोगातुरस्य ।
हंहो चेतः प्रकृतिरपरा नास्ति ते कापि सा सा
सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥
निमेषमपि यथैकं क्षीणदोषं करिष्यसि ।
पदं चित्ते तदा शंभो किं न कुंपादयिष्यसि ।


अत्र कवीनामाधाराणामभावेऽप्याधेयानां गिरामवस्थिति’न्यत्रभावो विषयार्थ इति विषयत्वेन तेषामाधारत्वात्, एकस्या एव योषितः प्रासा- दादौ युगपदवस्थानम्, तथा चित्तविषये पदकरणे प्रस्तुतेऽपि लोकोत्तर- वस्तुसंपादानं क्रमेण ज्ञेयम् ।

यथासाधितस्य तथैवान्येनान्यथाकरणं व्याघातः ।

यं कंचिदुपायविशेषमवलम्ब्य केनचिद्यन्निष्पादितं तत्ततोऽन्येन केन-


ते दुर्वृत्तभूपपरितापगुरूः प्रतापः ’ अत्राङ्गादीनामनर्हत्वेनाधारत्वाभावेऽप्याधेयस्य प्रता- पस्य स्थितिरिति विषेषालंकारत्वम् । तथा च-‘चोरिअरमणाउलिए पुत्ति पिअं हरसि सित्ति कि बुजम् । वच्चन्ती मुहजोह्राभरेहि तिमिरं पि ण ण्णिहिसि ॥' अत्र न केवलं प्रियं हरिष्यसि यावच्चिकीर्षाविहरेणासंभाव्यं तिमिरमपीति वस्त्वन्तरकरणात्मा विशेषः । यथा वा ‘माघः शिशुपालवधं विदधत्कविमदवधं विदधे। नाकरः स्वविजयं हरविजयं वर्णयन्व्यवृणोत् । अत्र न केवलं माधः शिशुपालवधं चकार यावदसंभाव्यं चिकीर्षितं कविमदवधमपीत्यशक्यवस्त्वन्तरकरणात्मायं विशेषः । अशक्यमेव कविमदवधं कर्तुं माघ- स्यात्र कर्तृत्वम् । एवमुत्तरत्रापि ज्ञेयम् । अतः एकस्मिन्क्रियमाणे तज्जातीयस्य प्रसङ्गतः सिद्धिरनुषङ्गःइत्यनुषङ्गालंकारोऽपि विशेष एवान्तर्भवतीति न पृथग्वाच्यः । यथासा- धितस्येत्यादि । निष्पादितामिति न तु निष्पादयितुं संभाव्यमानम् । तद्धि द्वितीयव्या- घातविषयः । तत इति निष्पादनकर्तुः। तत्प्रतिद्वन्द्धिनेति । निष्पादितवस्तुव्याहृति- कारित्वात् । तेनैवेत्यत्र भरः । अन्यथा हि वैचित्र्यातिशयो न स्यात् । अन्यथाक्रियत इति । तदुपमर्दकवस्त्वन्तरजननेनेत्यर्थः। अत एव नामाप्यस्य यौगिकमित्याह-निष्पादि- तेत्यादि । अतश्च यत्र न निष्पन्नस्य वस्तुतो व्याहतिरुपनिबध्यते तत्र नायमलंकारः । निष्पत्तेरेवाप्ररोहाद्वयाघातायोगात् । निष्पन्नवस्तुव्याहतिर्हि व्याघातः । फलं चात्र व्याहृति-


१. ‘दिशि दिशि’ ख. २. ‘पथि पथि’ ख. ३.दयं करिष्यति’ ख. ४. ‘संपाद- धिष्यति’ ख. ५. ‘अनन्यभावःख. ६. ‘तथा ’ ख. ७. ‘थं’ क-पुस्तके नास्ति. १८