पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१४४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४०
काव्यमाला ।


एवं विरोधमूलानलंकारान्निर्णीय श्रृङ्गलाबन्धोपचिता अलंकारा लक्ष्य- न्ते । तत्र -

पूर्वस्य पूर्वस्योत्तरोत्तरहेतुत्वे कारणमाला।

यदा पूर्वं पूर्वं क्रमेणोत्तरमुत्तरं प्रति हेतुत्वं भजते तदा कारणमाला- ख्योऽयमलंकारः । यथा-

‘जितेन्द्रियत्वं विनयस्य कारणं गुणप्रकर्षो विनयादवाप्यते ।
गुणप्रकर्षेण जनोऽनुरज्यते जनानुरागप्रभवा हि संपदः ।'

कार्यकारणक्रम एवात्र चारुत्वहेतुः ।


तोदाहरणत्वमस्य निरस्तम् । तत्र हि द्वयोरपि कार्ययोर्निष्पतिर्विवक्षिता । बाल्यस्य तु कार्यद्वयजननेऽपि सामर्थ्यं किं तु प्रस्थापनजनने सौकर्यम् । अत एवात्र संभाव्यमानस्य का- र्यस्य व्याहतत्वम् । यथा वा -‘यत्सशब्दमिति कामविमर्दे नूपुरं परिहरन्ति तरुण्यः । तद्वभार कतरापि विदग्धा गोपनाय निजकण्ठरुतानाम् । अत्र संभाव्यमानं कार्यं परि- हारः । तस्य व्याह्रतिधारणम् । उपायस्य सुकरदुष्करत्वेन विशिष्टत्वादत्र न प्रथमव्या- घातोदाहरणत्वम् । यथा च नायमर्थो वक्रोक्तेर्भदस्तथा वक्रोक्तावेव वक्ष्यामः । एषदुपसंहर- अन्यदवतारयति-एवमित्यादिना । अलंकार इति न पुनः शुक्लैवैकोऽलंकारः । एवं हि साधर्यमप्येक एवालंकारः स्यात् । न ह्यपमादिषु साधर्म्यपरिहारेण प्रत्येकं कश्चि- द्विच्छित्तिविशेषसंभवः येनालंकारभेदः स्यात् । एवं विरोधोऽप्येक एव वाच्यः । न हि विभावादीनां विरुद्धत्वादन्यः कश्चिद्विशेषः किमपरम् । एवं सप्ताष्टानामेवालंकाराणां लक्ष- णप्रणयनप्रसङ्गः । अथोपमादीनामपि साधर्म्यादाववान्तरोऽस्ति विशेष इति चेत् । तर्हि कारणमालादीनामपि शृङ्खलाबन्धोपचित्रितत्वेऽपि वक्ष्यमाणनीत्या कार्यकारणविशेषणविशे- ष्यभावाद्यात्मास्त्येवावान्तरोऽपि विच्छित्तिविशेषः येनोपमादिवत्पृथगेवैषामलंकारत्वं यु- क्तम् । एवं हि शृङ्खलायामवान्तरविच्छित्तिविशेषसंभवेऽप्यन्यालंकारोपसंख्यानं प्रसज्यत इति चेत्, न । यद्यस्ति विच्छित्यन्तरं तदस्त्वलंकारान्तरोपसंख्यानं को दोषः । प्रत्युता- भासमानस्य विशेषस्यापह्नवो न वाच्यः । तद्यथास्थित एवालंकारभेद आश्रयणीयः । त- स्मादुत्तरोत्तर पूर्वपूर्वानुबन्धित्वे विपर्यये वा शृङ्खलेति न वाच्यम् । तत्र तावत्कारणमा- लामाह-पूर्वेत्यादि । कारणमालाख्योऽयमिति मालान्यायेन बहुनां कारणमालानां योग- पद्येनावस्थानात् । अत एवाह-कार्यकारणक्रम एवेति । न पुनः केवलमेव शृङ्ख- लावमित्यर्थः । अत एव कारणमालेत्यस्या अन्वर्थमभिधानम् । एवमन्येभ्यः शृङ्खलाब- न्धोपचित्रितेभ्योऽलंकारेभ्योऽस्या विषयविभागः। न हि तेषु कार्यकारणक्रम एव चारुत्व-


१. ‘अत्र' क. २. ‘प्रस्थान ' ख. ३. साधम्र्येऽप्येक ' ख. ४. ‘अप्यन्तरोऽस्ति ख. ५. 'पूर्वानुबन्धित्वम्’ ख. ६. ‘विपर्ययो वा’ ख.