पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१४५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४१
अलङ्कारसर्वस्वम्


यथापूर्वं परस्य विशेषणतया स्थापनापोहने एकावली ।

यत्र पूर्वं पूर्वं प्रति क्रमेण परं परं विशेषणस्वमनुभवति स एकाव- ल्यलंकारः । विशेषणत्वं च स्थापनेन निवर्तनेन वा ।

स्थापनेन यथा -

‘पुराणि यस्यां सवराङ्गनानि वराङ्गना रूपपुरस्कृताङ्गयः।
रूपं समुन्मीलितसद्विलासमस्त्रं विलासः कुसुमायुधस्य ।


अत्र वराङ्गनाः पुराणां विशेषणं स्थानीयत्वेन स्थितम् । एवं वराङ्ग- नानां रूपमित्यादि ज्ञेयम् । निवर्तनेन यथा --

‘न तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं यन्न निलीनषट्पदम् ।
न षट्पदोऽसौ न जुगुञ्ज यः कलं न गुञ्जितं तन्न जहार यन्मनः।


अत्र जलस्य सुचारुपङ्कजत्वं विशेषणं निषेध्यत्वेन स्थितम् । एवं पङ्क- जानां निलीनषट्पदत्वं ज्ञेयम् ।

पूर्वस्य पूर्वस्योत्तरोत्तरगुणावहत्वे मालादीपकम् ।

उत्तरोत्तरस्य पूर्वं पूर्वं प्रत्युत्कर्षहेतुत्वे एकावली । पूर्वस्य पूर्वस्योत्तरो- त्तरोत्कर्षनिबन्धनत्वे तु मालादीपकम् । मालात्वेन चारुत्वविशेषमाश्रित्य


हेतुः । विशेषणविशेष्यभावादेवावान्तरस्य विच्छित्तिविशेषस्थ संभवात् । क्वचिद्विपर्ययेणापि भवति । यथा-“माणो गुणेहि जाअद गुण त्रि जाअन्तं सुअणसेवाइ । विमलेण सुअअप्प- सरेण सुअणवइ उट्टाणम् । अत्र हि पूर्वस्योत्तरोत्तरं कारणतयोपनिबद्धम् । एवमुत्तरत्रापि विपर्ययोऽभ्यूह्यः । यथापूर्वमित्यादि । परं परमिति । अत एव पूर्वस्य पूर्वस्य यथायथं विशिष्ठतयावगमः । स्वरूपमात्रेणावगतस्य वस्तुनो यत्र संबन्धबलेन वैशिष्टयमवग- म्यते तद्विशेषणम्।यद्वक्ष्यति । उत्तरोत्तरस्य पूर्वं पूर्वं प्रत्युत्कर्षहेतुत्वे एकावलीति। एकाव- ल्यलंकार इति । पूर्वोत्तरयोः परस्परानुषक्तत्वेनैकपङ्किरूपत्वात् । पूर्वेत्यादि । अतश्चै- कावल्यलंकाराद्वैलक्षण्यं दर्शयन्व्याचष्टे-उत्तरेत्यादि । उत्कर्षनिबन्धनत्व इत्यनेन कार- णमालातोऽप्यस्य वैलक्षण्यमुक्तम् । तस्यां हि पूर्वस्य पूर्वस्योत्तरमुत्तरं प्रति कारणत्वम् । ननु चास्य प्राच्यैर्दीपकानन्तरं लक्षणं कृतमिह तु किं न तथेत्याशङ्कयाह--मालत्वेने- त्यादि । मालाशब्देनात्र शृङ्खला लक्ष्यते । तस्या एवोपक्रान्तत्वात् । न चात्र मालोप-


4. ‘परस्परविशेषणतया’ ख. २. ‘द्विधा भवति’ ख. ३ . ‘वराङ्गनारूपमित्यादि’ ख.


4. ‘मानो गुणेन जायते गुणा अपि जायन्ते सुजनसेवायाःइति पूर्वार्धस्य च्छाया. २. उत्तरार्ध क-पुस्तकै नास्ति.