पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१४६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४२
काव्यमाला ।


दीपकप्रस्तावोलङ्घनेनेह लक्षणं कृतम् । गुणावहत्वमुकर्षहेतुत्वम् । यथा

‘संग्रामाङ्गनसंगतेन भवता चापे समारोपिते
देवाकर्णय येन येन सहसा यद्यत्समासादितम् ।
कोदण्डेन शराः शरैररिशिरस्तेनापि भूमण्डलं
तेन त्वं भवता च कीर्तिरतुला कीर्त्या च लोकत्रयम् ।


अत्र कोदण्डादिभिः क्रमेण शरीरादीनामुत्कर्षो विहितः । समासादन-

लक्षणक्रियानिबन्धनं च दीपकं दीपनक्रियाणामुत्तरोत्तरोम्भितत्वेन कृतम् ।

उत्तरोत्तरमुत्कर्षणमुदारः ।

पूर्वपूर्वापेक्षयोत्तरोत्तरस्योत्कर्षनिर्बन्धनत्वमुदाराख्योऽलंकारः। यथा- ‘जये धरित्र्याः पुरमेव सारं पुरे गृहं सद्मनि चैकदेशः ।

तत्रापि शय्या शयने वरस्त्री रत्नोज्ज्वला राज्यसुखस्य सारम् ॥


मावन्मालाशब्दो ज्ञेयः । एकस्योपमेयस्य बहूपमानोपादानाभावात् । अत्र ह्योपम्यमेव नास्ति । कोदण्डशरादीनां तस्याविवक्षणात् । अत एवास्य दीपकभेदत्वं न वाच्यम् । औपम्यजीवितं हि तत् । प्राच्यैः पुनरेतद्दीपनमात्रानुगुण्यात्तदनन्तरं लक्षितम् । शृङ्खला- त्वेन तु विशिष्टमस्य चारुत्वमितीह लक्षणं युक्तम् । एतच्च दीपक एव ग्रन्थकृतोक्तम् । छायान्तरेण तु मालादीपकं प्रस्तावान्तरे लक्षयिष्यत इति । अत्रेत्यादि । उकर्षश्च शरादीनां कोदण्डादिसमासादनलक्षणः।दीपनविषयणामिति । कोदण्डशरादीनाम् । अत एवास्य दीपकमित्यन्वर्थमभिधानम् । उत्तरेत्यादि । एतदेव व्याचष्टे-पूर्वे- त्यादि । एतचैकस्यैव वस्तुनो बहुनां वा स्यादित्यस्य द्वैधम् । तेन पूर्वत्र पूर्वपूर्वत्युत रस्यैति चावस्थाविशेषाभिप्रायेण व्याख्येयम् । अन्यथा ह्येकस्यैव पूर्वत्वमुत्तरत्वं च कथं.- स्यात् । एवमप्युत्तरोत्तरमुपचयः स्वरूपेण धर्मेण वा भवतीत्यस्य चातुर्विध्यम् । एवं प्र- कृते यथायथमारोहक्रमेण धाराधिरूढतयोत्कर्षप्रतिपादनं स्यादित्यलंकारबीजम् । यदुक्तम्। उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिरिति । पूर्वापेक्षयोत्तरस्योस्कृष्टत्वमित्यनेन मालादीप- कादस्य भेदोऽयुक्तः । तत्र हि पूर्वस्योत्तरं प्रत्युत्कर्षनिबन्धनत्वमुक्तम् । अत एव चा- स्योतरोत्तरस्योत्कर्षोपनिषद्वादन्वर्घत्वम् । तत्रैकस्य स्वरूपेणोत्कर्षो यथा—‘किं छत्रं


१. ‘हेतुकं' क. २. दीपनविषयाणाम्’ ख. ३. ‘उत्तरोत्तरमुत्कर्षः सारः ख. ४. ‘निबन्धनं सारः स्ख.


१. ‘प्रस्तावान्तरेन” क. २. ‘चार्ववस्था' क.