पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१४७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४३
अलङ्कारसर्वस्वम्


अत्र धरित्र्यपेक्षया पुरस्य सारत्वमेवं पुरापेक्षया तदेकदेशस्य गृहस्ये- त्यादि योजनीयम् । यथा

'राज्ये सारं वसुधा वसुंधरायां पुरं पुरे सौधम् ।
सौधे तल्पं तल्पे वराङ्गनानङ्गसर्वस्वम् ॥


अत्र राज्यापेक्षया वसुंधरायाः सारत्वमेवं वसुधापेक्षया तदेकदेशस्य पुरस्येत्यादि योजनीयम् ।

एवं शृङ्खलाविच्छित्त्यालंकाराः प्रतिपादिताः । अधुना तर्कन्याया- श्रयेणालंकारद्वयमुच्यते । तत्र---

हेतोर्वाक्यपदार्थता काव्यलिङ्गम् ।


किं नु रत्नं तिलकमथ तथा कुण्डलं कौस्तुभो वा चक्रे वा वारिजं वैत्यमरयुवतिभिर्यद्ब- } लिद्वेषिदेहे । ऊर्ध्वे मौलौ ललाटे श्रवसि हृदि करे नाभिदेशे च दृष्टं पायात्तद्वोऽर्कबिम्बं स च दनुजारिपुर्वर्धमाणः क्रमेण ।' अत्रैकस्यैव हरेस्तत्तदभ्यवस्थाविशिष्टतया स्वरूपेणो- त्तरोत्तरमुत्कर्षः। धर्मेणापि यथा-‘अतसीकुसुमप्रभं मुखे तदनु त्वकचमेचकद्युति । अथ बालतमालमांसलं प्रसूतं संप्रति सर्वतस्तमः । अत्रैकस्यैव तमसो निबिडत्वाख्यधर्म- मुखेनोत्तरोत्तरमुत्कर्षः । अत्र च यद्यप्येकस्मिन्नेव तमस्यनेकस्यातसीकुसुमप्रभादिकस्या- वस्थानात्पर्यायत्वम्, तथापि तमसो नैबिड्यं यथायथमुत्सृष्टतया वाक्यार्थीभूतमिति यथो- क्तमेव युक्तम् । बहूनां स्वरूपेणोत्कर्षो यथा—‘अत्युच्चस्तरवः स्फुरन्ति गिरयः स्वर्वा- सिशैलस्ततस्तस्माद्विष्णुपदं ततः किमपरं र स्यादन्यदत्युन्नतम् । तस्मात्सर्वत एव साधु- हृदयान्युत्तुङ्गभङ्गीनि तत्कस्या उन्नतये तवार्थिपदवीं चिन्तामणे तन्वते । अत्रानेकेषां { पूर्वापेक्षया स्वरूपेणोसरोत्तरमुत्कर्षः । धर्मेण यथा—‘कुक्षेः कोटर एव कैटभरिपुर्धत्ते त्रिलोकीमिमामप्युद्गूढभरो बिभर्ति तमपि प्रीतो भुजंगेश्वरः। श्रीकण्ठस्य स कण्ठसूत्रम- भवद्देव त्वया तं हृदा विभ्राणेन परेषु पौरुषकथा श्रीकर्णं निशिता ॥’ अत्र कैटभारि- प्रभृतीनां पौरुषाख्यधर्ममुखेनोत्तरोत्तरमुत्कर्षः । एवं ‘जये धारित्र्याः इत्यादौ सारत्वमुखेन बोद्धव्यम् । यदाहात्रेत्यादि । यथा वा-त्रिलोक्यां रत्नसूः श्लाघ्या तस्यां धनपतेर्हरित् । तत्र गौरीगुरुः शैलो यतस्मिन्नपि मण्डलम् । अत्र बहूनां वाच्यत्वेनोत्तरोत्तरमुत्कर्षः । यत्त्वयैरेतत्स्थाने रूपधर्माभ्यामाधिक्यमुक्तम् । तत्तेषां नाममात्रनवीकरणरसिकत्वम्। अ- स्यैव पूर्वपूर्वापेक्षयोत्तरोत्तरोत्कर्षोपनिबन्धनात्मकत्वात्समग्रविषयावगाहनसहिष्णुत्वात् । तस्मादस्मिश्च वर्धमाने सारोपान्तर्भावमेति । न पुनरिदमन्तर्भूतं सारे परिमितविषये महा- विषयमित्याद्युक्तमेवोक्तम् । एतदुपसंहृत्यान्यदवतारयति--एवमित्यादिना । तत्रेति द्वयं निर्धारणे' । हेतोरित्यादि । यत्रेति । हेतोश्च वाक्यार्थपदार्थगत्योपनिबन्धाद-


१. ‘प्रदर्शिताःक. २. ‘तत्कान्यायाश्रयेणा’ ख. ३. ‘तत्र' इति क-पुस्तके नास्ति .


१. एतत्पर्यन्तं ख-पुस्तकं नास्ति. २. ‘यत्रेति’ इति ख-पुस्तके नास्ति.