यत्र हेतुः कारणरूपो वाक्यार्थगत्या विशेषणद्वारेण वा पदार्थगत्या
लिङ्गत्वेन निबद्यते तत्काव्यलिङ्गम् । तर्कवैलक्षण्यार्थे काव्यग्रहणम् ।
न ह्यत्र व्याप्तिपक्षधर्मतोपसंहारादयः क्रियन्ते । वाक्यार्थगत्या च निबद्धो-
पनिबद्धस्य हेतुत्वम् । अन्यथार्थान्तरन्यासान्नास्यभेदः स्यात् । क्रमेण
यथा--
‘यत्त्वनेत्रसमानकान्ति सलिले मग्नं तदिन्दीवरं
मेधैरन्तरितः प्रिये तव मुखच्छायानुकारी शशी ।
येऽपि त्वद्गमनानुसारिगतयस्ते राजहंसा गता-
स्त्वत्सादृश्यविनोदमात्रमपि मे दैवेन न क्षम्यते ।
स्थानेन सह भेदद्वयमप्युक्तम् । वाक्यार्थगत्येति । न तु पदार्थगत्या । तत्र भूपनि- बद्धस्यैव हेतुत्वात् । हेतुत्वेनैवेति । हेतुत्वस्यामुख एवोद्रिक्तत्वेन प्रतीतेः । अन्य- थेति । हेतुत्वेनोपनिबन्धो यदि न स्यात् । ननु हेतोर्वाक्यपदार्थोभयोपनिबन्धे न कश्चि- द्विच्छिसिविशेषः प्रतीयत इति कथमस्यालंकारत्वमुक्तम् । न हि साध्यसाधनायोपातस्य हेतोरेवं प्रकारद्वयातिरेकेणोपनिबन्धः स्यात् । न च यथासंभाविनोपनिबन्धमात्रेणालंकारत्वं वक्तुं युक्तम् । कविप्रतिभात्मकस्य विच्छित्तिविशेषारमकस्यालंकारत्वेनोक्तवात् । न चैवमुपनिबन्धात्कश्चिदातिशय इति कथमस्यालंकारत्वत् । एवं हि दृक्वाभासैव नान्येन वेद्येत्यादावपि स्वाभासत्वस्य हेतोर्विशेषणद्वारेण पदार्थगत्या, तथा ‘प्रत्यक्षाद्विरलकराङ्गु-- लिप्रतीतिर्व्यापित्वादकुशलमिन्द्रियं न तस्याम्’ इत्यादौ तमसि विरलाङ्गुलिप्रतीतौ व्या- पित्वादिन्द्रियकौशलमेव साधनमिति हेतोर्वाक्यार्थगत्योपनिबन्धादलंकारत्वं स्यात् । स- त्यम् । यद्यप्यैवमुपनिबन्धस्य वस्तुवृत्तेरसंभवान्न कश्चिदतिशयः प्रतीयते, तथापि ग्रन्थ कृता प्राच्यैर्लक्षितत्वां तदिह लक्षितम् । अथ यत्र व्यङ्गथाश्लिष्टो वाच्यार्थो वाच्यमेवार्थं प्रति हेतुतां भजते तत्रायमलंकारों युज्यत एवेति चेत् । तर्हि व्यङ्ग्याश्लेषवशेन तदुत्था- नाद्वाक्यार्थपदार्थतयोपनिबध्यमानस्य हेतोः स्वात्मनि न कश्चिदतिशय इति व्यङ्ग्यकृत एवातिशयोऽभ्युपगम्यते । न तत्कृतः । तस्यैवमुपनिबद्धस्य वास्तव्यत्वात् । यदि च व्यङ्गसाहचर्येणैव हेतुरलंकारतामियात् तच्छब्दस्यापि हेतोरलंकारत्वं प्रसज्यते । यदि तत्रापि व्यङ्गधाश्लेषः स्यात् । अथ तस्य शाब्दत्वादेव वैचियाभावादयमनलंकारत्वे नि- मित्तत्वं कथं न यायात्। अथ तत्र व्यङ्ग्याश्लेषो न भवतीति चेत्, किं नामापराद्धम् । येनात्र व्यङ्ग्याश्लेषस्तत्र च नेति । तथात्वेन लक्ष्यादर्शनादिति चेत्, नैतत् । अवाग्दर्शिन एवं निश्चयानुपपत्तेः । प्रत्युत यत्र भवता व्यङ्ग्याश्लेष उक्तस्तत्र स नास्तीति वक्तुं श-
१. उपसंहारादयः क्रियावाक्यार्थगत्या' ख.
१. ‘हेतुत्वम्’ ख .