‘मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तावागतिज्ञं समबोधयन्माम् ।
व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ।
पूर्वत्र पादत्रयार्थोऽनेकवाक्यार्थरूपः । चतुर्थपादार्थों हेतुत्वेनोपन्यस्तः ।
उत्तरत्र संबोधने व्यापारयन्त्यः’ इति मृगीविशेषणत्वेनानेकः पदार्थो हे-
तुत्वेनोक्तः ।
एवमेकवाक्यार्थगतत्वेन काव्यलिङ्गमुदाह्रियते । यथा—
‘मनीषिताः सन्ति गृहेषु देवतास्तपः च वत्से क्व च तावकं वपुः।
पदं सहेत भ्रमरस्य पेलवं शिरीषपुष्पं न पुनः पतत्रिणः ।
‘यद्विसमयस्तिमितमस्तमितान्यभाव-
मानन्दमन्दममृतप्लवनादिवाभूत् ।
तत्संनिधौ तदधुना हृदयं मदीय-
मङ्गारचुम्बितमिव व्यथमानमास्ते ।
क्यते । तथाहि । ‘वक्षःस्थली रक्षतु सा जगन्ति जगत्प्रसूतेर्गरुडध्वजस्य। श्रियोऽङ्गरा- गेण विभाव्यते या सौभाग्यहेम्नः कषपट्टिकेव ॥' इत्यत्र वक्षःस्थल्या जगद्रक्षकत्वे जग-. त्प्रसूतित्वं पदार्थो हेतुः । प्रसवितुर्हि निजप्रसूतेः सर्वथैव रक्षणमुचितम् । अत एव गरु- डध्वजवक्षःस्थल्या जगद्रक्षकत्वे कर्तृत्वं युक्तम् । इयांश्चाभिधेय एवार्थः । अत एव चात्र न हेतोः कश्चिद्वयङ्गधीश्लेषः । इत्थम् । ‘संजीवणोसहम्मिव सुअस्स रक्खइ अणण्णवावारा। सासू णवब्भदंसणकण्ठागअजीविअं सोह्णम् ॥’ इत्यत्र कण्ठागतजीवितत्वस्य । अत्र च। जगत्प्रसूतित्वस्य हेतोः पदार्थतयोषनिषन्धे न कश्चिदतिशयो विशेषः । एवम् । `अयि प्र- मत्ते सिचयं गृहाणंयुक्तेऽपि सख्या न विवेद काचित् । मग्ना हि सा तत्र रसान्तराले यत्रान्तरङ्गो भगवाननङ्गः ॥’ इत्यत्रापि ज्ञेयम् । यद्यपि चात्र रसशब्दस्य जलवाचित्वं न विवक्षितम् । तथाप्यभेदाध्यवसायादतिशयोक्तिर्न पुनः शब्दशक्तिमूलं व्यङ्ग्यम्। तथात्वे हि हेतुहेतुमद्भावस्य न कश्चिदतिशयः । एवं हि । ‘एकान्तजाड्यादूरूभ्यां करभोर्वाः प- राजिताः । कदल्यो यत्र तच्चित्रं जयः क्व न कलावताम् ॥’ इत्यत्र जाड्यातिशयोक्त्या- लिङ्गितत्वेन वैचित्र्यावहत्वाच्छाब्दस्यापि पदार्थस्य हेतोरलंकारत्वं स्यात् । एवमुदाहरणा-
१. अनेकार्थवाक्यार्थरूपः’ क. २. ‘चतुर्थपादार्थों ’ क. ३. ‘एवमेव' ख. ४. ‘यथा’ । इति क-पुस्तकै नास्ति.
१. ‘संजीवनौषधिमिव सुतस्य रक्षत्यनन्यव्यापारा । श्वश्रूर्नवभ्रदर्शनकष्ठगतजीवित स्नुषाम्’ इति च्छाया.
।