पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१३
अलंकारसर्वस्वम् ।


भावादविचारिताभिधानम् । तदेतत्कुशाग्रधिषणैः क्षोदनीयमतिगहनगहन मिति नेह प्रतन्यते ।

अस्ति तावद्व्यङ्ग्यनिष्ठो व्यञ्जनव्यापारः । तत्र व्यङ्ग्यस्य प्राधान्याप्रा- . धान्याभ्यां ध्वनिगुणीभूतव्यङ्ग्याख्यौ द्वौ काव्यभेदौ । व्यङ्ग्यस्यास्फुटत्वे


न्धतः कुतश्चित्सा काव्यानुमितिरित्युक्ता ॥' इति । अविचारिताभिधानमिति । इह लिङ्गलिङ्गिनोस्तादात्म्यतदुत्पत्तिभ्यामेव तावत्प्रतिबन्धो निश्चीयते । तन्निश्चयेनैव च साध्यसिद्धिः । अन्यथा हि साध्यसिद्धिर्न स्याद्व्यभिचारात् । तत्र तादात्म्यं यथा कृतक- त्वानित्यत्वयोः । तदुत्पत्तिर्यथा वह्निधूमयोः । वाच्यप्रतीयमानयोः पुनस्तादात्म्यतदुत्पत्ती न स्तः । तथाहि-‘निःशेषच्युतचन्दनं स्तनतटं निर्मुष्टरागोऽधरो नेत्रे दूरमनञ्जने पुल- किता तन्वी तथेयं तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा वापीं स्ना- तुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ।' इत्यत्र विधिना निषेधो निषेधेन वा विधिः प्रतीयते । न तस्य वाच्येन सह तादात्म्यम् । विरुद्धत्वात् । नह्यभावो भावात्मा भवति भावोऽप्यभावात्मा । नापि तदुत्पत्तिः । अभावस्य जन्यजनकत्वानुपपत्तेः । नापि निःशेषच्युतचन्दनादीनां विशेषणानां तदन्तिकगमनानुमापकत्वं युक्तम् । तेषां स्राना दावपि सद्भावादनैकान्तिकत्वात् । एतच्च ध्वनिकारेणादूषितत्वाद्ध्वन्यकृता स्वकण्ठेन दूषितम् । अत एवानेनान्या विप्रतिपत्तयो न दूषिताः । एतदिति । वाच्यस्य प्रतीय मानेन तादात्म्यतदुत्पत्यभावादि नेह प्रतन्यत इति व्यक्तिविवेकविचारे हि मयैवैतद्वि तत्य निर्णीतमिति भावः । तादित्यं परपरिकल्पितसमारोपापसारप्रत्याख्यानेन प्राप्तप्रति ष्ठानो ध्वनिरित्याह--अस्तीत्यादि । तावच्छब्दो विप्रतिपत्त्यभावद्योतकः । अस्यैव भेदनिर्देशं कर्तुमाह--तत्रेत्यादि । व्यङ्ग्यनिष्टे व्यञ्जनव्यापारे सत्यपीत्यर्थः। प्राधान्या- प्राधान्येति । यदुक्तम्-‘तत्परावेव शब्दार्थौं यत्र व्यङ्ग्यं प्रति स्थितौ । ध्वनेः स एव विषयो मन्तव्यः संकरोज्झित: ।' इति । तथा-‘प्रकारोऽन्यो गुणीभूतव्यङ्गयः काव्यस्य दृश्यते । तत्र व्यङ्गथान्वये वाच्यचारुत्वं स्यात्प्रकर्षवत् ।' इति । अस्फुटत्व इति । व्यङ्गयस्याविवक्षितत्वे सतीत्यर्थ । यदुक्तम्-‘रसभावादिविषयविवक्षाविरहे सति । अलंकारनिवन्धो यः स चित्रविषयो मतः ।।' इति । तत्रेति त्रयनिर्धारणे । त स्येत्युत्तमस्य ध्वनेः । आद्य इत्यविवक्षितवाच्य । न केवलं ध्वनिर्द्विविधः यावत्तत्प्रभे दोऽप्ययं द्विविध इत्यपिशब्दार्थः । यदुक्तम्-‘अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृ तम् । अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विधा मतम् ।' इति । द्वितीय इति विवक्षिता न्यपरवाच्यः । यदुक्तम्-‘असंलक्ष्यक्रमोद्दषोतः क्रमेण द्योतितः परः । विवक्षिताभि धेयस्य ध्वनेरात्मा द्विधा मतः ।।' इति । अत्रैव वस्तुरसालंकाराणां ध्वन्यमानत्वं दर्श


१. ‘निषेधेनैव वा विधिर्यः' ख .