पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१५०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४६
काव्यमाला ।


पूर्वत्र वरप्राप्तिहेतुभूततपोनिषेधस्य ‘मनीषिताः इति वाक्यार्थरूपो हे- तुर्निर्दिष्टः । उत्तरत्र पुनः ‘अस्तमितान्यभावम्’ इत्यत्र विस्मयस्तिमितमिति विशेषणद्वारेण पदार्थः ।

साध्यसाधननिर्देशोऽनुमानम् ।

यत्र शब्दवृत्तेन पक्षधर्मान्वयव्यतिरेकवत्साधनं साध्यप्रतीतये निर्दिश्यते सोऽनुमानमलंकारः । विच्छित्तिविशेषश्चत्रार्थाश्रयणीयः ।

अन्यथा तर्कनुमानात्किं वैलक्षण्यम् । उदाहरणम्--

‘यथा रन्धं व्योम्नश्चलजलदधूमः स्थगयति
स्फुलिङ्गानां रूपं दधति च यथा कीटमणयः ।
यथा विद्युज्ज्वालो ज्वलनपरिपिङ्गाश्च ककुभ-
स्तथा मन्ये लग्नः पथिकतरुखण्डे स्मरदवः ॥


अत्र धूमस्फुलिङ्गकपिलदित्वानि वह्निलिङ्गानि त्रिरूपत्वाद्दवशब्दप्र- तिपादितं वह्निं गमयतीत्यनुमानम् । रूपकमूलत्वेनालंकारान्तरभङ्गीकारेण विच्छित्त्याश्रयणातर्कानुमानवैलक्षण्यम् ।


न्तरेष्ववसेयम् । एवं च यत्रापि व्यङ्ग्याश्लेषः स्यात्तत्रापि हेतोर्वाक्यार्थपदार्थतयोपनिबन्धे न कश्चिदतिशयः । अथ साध्यप्रतीतये हेतोरुपनिबन्धादस्त्येव वैचित्र्यातिशय इति चेत् । तर्ह्यनुमानमेवेदं स्यान्नालंकारान्तरम् । साध्यसाधनस्य तल्लक्षणत्वेन वक्ष्यमाणत्वात् । एवं हे- तोर्वाक्यपदार्थतयोपनिबद्धस्य वास्तवत्वादस्य पृथगलंकारत्वं न युक्तम् । उक्तवक्ष्यमाणनी त्यानुमान एवान्तर्भावोपपत्तेः । साध्येत्यादि । एतदेव व्याचष्टे-यत्रेत्यादिना । एवं चात्र साध्यप्रतीतये त्रिरूपस्य साध्यस्य निर्देशातर्कानुमानसमानकक्ष्यमेवास्य लक्षण- मिति भावः । यद्येवं तत्ततोऽस्य को विशेष इत्याशङ्कयाह--विचिछत्तीत्यादि । त- च्चानुमानं द्विधा । स्वार्थ परार्थ च । तत्र स्वार्थे यत्र मयायमवगतोऽर्थ इति स्वपरामर्षस्य निश्चयः स्यात् । परार्थे तु यत्र परेणानवगतस्य वस्तुतः प्रतिपादनात्परप्रत्यायकत्वं स्यात् । एवं च । स्वार्थपरार्थभेदेन द्विविधमनुमानमेवैकोऽलंकारो वाच्यो न पुनरनुमानहेतुतया पृथगलंकारत्वम् । उभयत्रापि सामान्यलक्षणानुगमाप्रकारप्रकारिभावस्यैवोपपत्तेः । तत्र स्वार्थानुमानं यथा ग्रन्थकृतैवोदाहृतम् । तत्र हि स्मरदवो लग्न इति स्वपरामर्षस्यैव निश्चयः । परार्थानुमानं यथा–‘तदस्ति तेषां तमसि प्रसर्पिणां निशाचरत्वं यदि पारमा- र्थिकम् । ततः प्रिये संनिहितेऽत्र वासरे कथं नु तत्संचरणं भविष्यति । अत्र दिवासं- चरणस्य कार्यस्य विरुद्धं निशाचरत्वं परप्रत्यायको हेतुः। रूपकमूलत्वेनेति । रूपक-


१. ‘रूपकमूळमैवेति क.