पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१५२

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४८
काव्यमाला ।


शत्वात् इत्यत्र न कश्चिदलंकारः यत्र तूपात्तस्य हेतुत्वं ययोदाहृते वि- षये ‘मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षाः इत्यादौ तत्रैव काव्यलिङ्गम् । यत्र तु वाक्यार्थो हेतुस्तत्र हेतुप्रतिपादकमन्तरेण हेतुत्वायोपन्यासे काव्यलिङ्गमेव । तटस्थत्वेनोपन्यस्तस्य हेतुत्वेनार्थान्तरन्यासः । एवं चास्यां प्रक्रियायां कार्य- कारणवाक्यार्थयोर्हेतुत्वे काव्यलिङ्गमेव पर्यवस्यति । समर्थकवाक्यस्य सापे- क्षत्वात् । ताटस्थ्याभावात् । ततश्च सामान्यविशेषभावोऽर्थान्तरन्यासस्य वि- षयः। यत्पुनरर्थान्तरन्यासस्य कार्यकारणगतत्वेन समर्थकत्वमुक्तम्, तदुक्तल- क्षणकाव्यलिङ्गमनाश्रित्य । तद्विषयत्वेन लक्षणान्तरस्यौद्भटैरनाश्रितत्वात् ।

उक्तलक्षणौश्रयणे तु यत्त्वन्नेत्रेत्यादिर्विविक्तो विषयः काव्यलिङ्गस्या- र्थान्तरन्यासदर्शित इति कार्यकारणयोः सामर्थ्यसमर्थकत्वमर्थान्तरन्यासस्य पूर्वं दर्शितमितीयती गमनिकाश्रयितव्या।।

एवं तर्कन्यायमूलमलंकारद्वयमुक्त्वा काव्यन्यायमूला अलंकारा उच्यन्ते। उद्दिष्टानामर्थानां क्रमेणानूद्देशो यथासंख्यम् ।

ऊर्ध्वं निर्द्दिष्टा उद्दिष्टाः । पश्चान्निर्देशोऽनूद्देशः । स चार्थादर्थान्तर-


न कश्चिदलंकार इति । हेतुमात्ररूपत्वात् । हेतुत्ववाचकं विनापि तदधिगमे ह्यस्य चारुत्वातिशय इति भावः । यद्वक्ष्यति--हेतुत्वप्रतिपादकमन्तरेणेति। उपात्तस्येति । पा- रिशेष्यात्पदार्थस्य वाक्यार्थस्य हेतुत्वेनोपादानाभिधानात् । एकमिति पदार्थगतम् । हेतुत्व- प्रतिपादक इति शब्दादि:। तटस्थत्वेनेति । न तु हेतुत्वेनेत्यर्थः । अत एव चानयो- र्भेदः। ततश्चेति पारिशेष्यात् । ननु यद्येवं तत्पूर्वमर्थान्तरन्यासस्य केनाभिप्रायेण कार्य- कारणगतत्वेन समर्थकस्वमुक्तमित्याशङ्कयाह-यत्पुनरित्यादि । लक्षणान्तरस्येति । । पदार्थगतत्वेनैवेष्टेः । यदाहुः-श्रुतमेकं यदन्यत्र स्मृतेरनुभवस्य वा । हेतुतां प्रतिपद्येत काव्यलिङ्गं तदुच्यते ॥' इति । यद्येतदुद्भटमताभिप्रायेणोक्तं तत्कथं स्वमतं संगच्छते इ- त्याशङ्कयाह--उक्तेत्यादि । विविक्तविषय इति । ताटस्थ्यव्यतिरेकेण वाक्या- र्थस्य हेतुत्वायोपन्यासादर्थान्तरन्यासस्यात्राव्यापृतेः। आश्रयितव्येति । न पुनर्वस्तुतः संभवतीत्यर्थः । एतदुपसंहरन्नन्यदवतारयति--एवमित्यादिना । उद्दिष्टानामि-


१. ‘इत्यादाविव' ख. २. ‘हेतुत्वप्रतिपादकं ख. ३. ‘आश्रयेण’ क.


१. ‘अत्रप्रवृत्तेः’ ख.