गतः संबन्धश्चात्र सामर्थ्यात्प्रतीयते । ऊर्ध्ं निर्दिष्टानामर्थानां पश्चान्निर्दि-
ष्टेरर्थैः क्रमेण संबन्धो यथासंख्यमिति वाक्यार्थः । अन्ये त्विममलंकारं क्र-
मसंज्ञयाभिदधिरे । तच्च यथासंख्यं शाब्दमार्थं च द्विधा । शाब्दं यत्रा-
समस्तानां पादानामसमस्तैः पदैरर्थद्वारकः संबन्धः । तत्र क्रमसंबन्धस्या-
तिरोहितस्य प्रत्येयत्वात् । आर्थं तु यत्र समासः क्रियते तत्र समुदायस्य
समुदायेन सह संबन्धस्य शाब्दत्वादर्थावगमपर्यावलोचनया त्ववगतः क्रम-
संबन्धः प्रतीयते । तथात्र यथासंख्यस्यार्थत्वम् । आद्यस्योदाहरणम्--
‘लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां
देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा ।
इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं
चिन्तारत्नमहो वृथैव किममी सृष्टाः कुलक्ष्माभृतः ।
अत्र लावण्यौकःप्रभृतीनामिन्द्वादिभिः क्रमसंबन्धस्याव्यवहितत्वेन प्र-
तीतेः । शाब्दं यथासंख्यं यथा-
‘कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं वः ।
जलनिधिगिरिकमलस्था हरिहरकमलासना ददतु ।
अत्र कजलादीनां सुपर्णादिभिः संबद्धानां जलनिध्यादिभिः सह संबन्धो
हरिप्रभृतिभिः संबन्धः श्रुत्या समुदायनिष्ठः प्रतीयते । अर्थानुगमानुसा-
रेण त्ववयवानां क्रमसंबन्धावगतिरित्यार्थ यथासंख्यम् ।
त्यादि । अर्थादिति । उद्दिष्टानामेव त्वनुनिर्देशे पौनरुक्त्यं स्यात् । सामर्थ्या-
दिति । वाक्यपर्यालोचनबलात् । अन्य इति । वामनादयः । यदाहुः-“उपमेयोपमानां
क्रमसंबन्धतः क्रमः' इति । अनेनास्य प्राच्योक्तत्वं दर्शितम् । अव्यवहितत्वेनेति ।
समासाद्यभावात्। अवयवानामिति । हरिकज्जलादीनाम् । न चास्यालंकारत्वं युक्तम् ।
दोषाभावमात्ररूपत्वात् । उद्दिष्टानां क्रमेणानुनिर्देशे ह्यक्रियमाणेऽपक्रमाख्यो दोषः प्रस-
ज्यते । यदुक्तम्--‘क्रमहीनार्थमपक्रमम्' इति । तच्च यथा-‘कीर्तिप्रतापो भवतः सू-
र्याचन्द्रमसाविव' इति । दोषाभावमात्रं च नालंकारत्वम् । तस्य कविप्रतिभात्मकविच्छि-
१. ‘यथासंख्यम्’ ख.
१. ‘अस्य' क.
पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१५३
एतत् पृष्ठम् परिष्कृतम् अस्ति
१४९
अलङ्कारसर्वस्वम् ।