पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१५७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५३
अलङ्कारसर्वस्वम्



अत्र हीनगुणेन कलेवरेणोत्कृष्टगुणस्य यशसो विनिमयः ।

'दत्वा दर्शनमेते मत्प्राणा वरतनु त्वया क्रीताः ।
किं त्वपहरसि मनो यद्ददासि रणरणकमेतदसत् ॥


अत्राद्ये समपरिवृत्तिः । द्वितीयार्धे न्यूनपरिवृत्तिः ।

एकस्यानेकप्राप्तावेकत्र नियमनं परिसंख्या ।

एकानेकप्रस्तावादिह वचनम् । एकं वस्तु यदानेकत्र युगपत्संभाव्यते तदा तस्यैकत्रासंभाव्ये द्वितीयपरिहारेण नियमनं परिसंख्या । कस्यचित्प- रिवर्जनेन कुत्रचित्संख्यानं वर्णनीयत्वेन गणनं परिसंख्या। सा चैषा प्रश्न- पूर्विका तदन्यथा वेति प्रथमं द्विधा । प्रत्येकं च वर्जनीयत्वेऽस्य शाब्द त्वार्थत्वाभ्यां द्वैविध्यमिति चतुःप्रभेदाः । क्रमेण यथा--

‘किं भूषणं सुदृढमत्र यशो न रत्नं
किं कार्यमार्यचरितं सुकृतं न दोषः ।



नियमस्य त्रिरूपत्वात् । क्रमप्रतिभासेति । त्यागादानयोः पौर्वापर्येण क्रमिकत्वात्। तु- ल्यगुणत्वमिति । वैपुल्यादिना साधारणधर्मस्यानुगामितया पुनरत्र तुल्यगुणत्वं यथा- ‘सुधावदातं पाण्डुत्वं विनिधाय कपोलयोः । भीर्यत्कथोत्था शत्रूणां निःशेषमकरोद्यशः ॥' सुधावदातमित्यस्यानुगामित्वम् । बिम्बप्रतिबिम्बभावो यथा -‘कृतानामेतासामुदितकुसुमानां मरुदसौ मतं लास्यं दत्वा श्रयति भृशमामोदमसमम् । लतास्त्वध्वन्यानामहह दृशमादाय रभसाद्ददत्याधिव्याधिभ्रमरुदितमोहव्यतिकरम् । अत्र मतासमत्वयोर्बिम्बप्रतिबिम्बभावः । शुद्धसामान्यरूपत्वं यथा--“मनोहरं स्वं प्रतिवेतनाय रुतं प्रकल्प्योन्मदचित्तहारि । म- ध्वाददानो मधुपायिलोकः पद्मकराणामनृणीबभूव ॥ ’ अत्र मनोहरत्वचित्तहारित्वयोः शु- द्धसामान्यरूपत्वम् । आभरणानां चात्रोत्कृष्टत्वं वस्तुसामर्थ्योल्लभ्यते । वल्कलस्य पुनर्वा- र्धकशोभीत्यनेन स्वयमेव न्यूनत्वमुक्तम् । एवं कलेवरयशसोरपि जर्जरोज्ज्वलत्वेन न्यूना- धिकत्वमुक्तम् । एतच्चास्य प्राच्यैरप्युक्तमिति रुद्रटोदाहरणेऽपि समपरिवृत्यादि योजयति- दत्वेत्यादिना । एकानेकेति। पर्याये एकस्यानेकत्र पर्यवसानादेरुक्तत्वात् । असं- भाव्य इति । कविप्रतिभानिर्वर्तितत्वाभावाल्लोकोत्तर इत्यर्थः। न पुनः प्राप्तिविषयत्वेना- संभाव्यत्वं व्याख्येयम् । सर्वथाप्राप्तस्यार्थान्तरनिषेधमात्रपरो हि विधिः परिसंख्या । अत एवार्थान्तरनिषेधे तात्पर्यमेव दर्शयितुं द्वितीयपरिहारेणेयुक्तम् । अपवर्जन इति । ‘अप परीवर्जने’ इति वचनात् । सेति । यथोक्तरूपा । एषेति । परिसंख्या । किं भूषणमिति


१. ‘तस्यासंभाव्य एकत्र’ ख. २. ‘परिवर्जने कस्यचिद्वर्जने’ ख. ३. ‘वर्जनी यत्वस्य' क.


१. ‘विनिमयस्य ' ख. २. ‘अतश्चस्याः स्ख. २०