किं चक्षुरप्रतिहतं धिषणा न नेत्रं
जानाति कस्त्वदपरः सदसद्विवेकम् ॥
किमासेव्यं पुंसां सविधमनवद्यं धूसरितः
किमेकान्ते ध्येयं चरणयुगलं कौस्तुमभृतः ।
किमाराध्यं पुण्यं किमभिलषणीयं च करुणा
यदासक्त्या चेतो निरवधि विमुक्त्यै प्रभवति ॥
‘भक्तिर्भवे न विभवे व्यसनं शास्त्रे न युवतिकामास्त्रे ।
चिन्ता यशसि न वपुषि प्रायः परिदृश्यते महताम् ॥
‘कौटिल्यं कचनिचये करचरणाधरदलेषु रागस्ते ।
काठिन्यं कुचयुगले तरलत्वं नेत्रयोर्वसति ।
अत्र चालौकिकं वस्तु गृह्यमाणं वस्त्वन्तरव्यवच्छेदे पर्यवस्यतीति व्य-
वच्छेद्यं वस्त्वन्तरशब्दमात्रं वेति नियमाभावः । अलौकिकत्वाभिप्रायेणैव
क्वचित्प्रश्नपूर्वकं ग्रहणम् । यथा-
'विलङ्घयन्ति श्रुतिवर्म यस्यां लीलावतीनां नयनोत्पलानि ।
बिभर्ति यस्यामपि वक्रिमाणमेको महाकालजटार्धचन्द्रः ।
यथा--चित्रकर्मसु वर्णसंकरो यतिषु दण्डग्रहणानि' इत्यादि श्ले-
प्रश्नपूर्वकत्वम् । न रत्नमिति शब्दोपादानात्परिवर्जनीयस्य शब्दत्वम् । न पुनरीश्वरादि सेव्यमिति परिवर्जनीयस्य शब्दानुपादानादर्थत्वम् । अत्रेति । एषूदाहरणेषु । अलौकि- कमिति । कविप्रतिभानिर्वर्तितम् । गृह्यमाणमिति । विधीयमानतया । वस्त्वन्त- रव्यवच्छेद इति । अर्थान्तरनिषेधमात्रतात्पर्यात् । नियमाभाव इति । न ह्यत्र व्यवच्छेद्यस्य शब्दत्वार्थत्वाभ्यां कश्चिल्लक्षणभेद इति भावः । अलौकिकत्वाभिप्राये- णेति । न हि ‘पञ्च पञ्चनखा भक्ष्याःइत्यादौ प्रश्नपूर्वकं ग्रहणमित्याशयः। क्वचि- दिति । कुत्राप्यप्रश्नपूर्वकत्वमपि भवेदिति भावः । श्लेषसंपृक्तत्वमिति । श्लेषशब्द- श्चात्र क्लिष्टशब्दनिबन्धनायामतिशयोक्तौ वर्तते । तथात्वोक्तेश्चातिशयोक्तिमात्रसंपृक्तत्वे न
१. ‘लौकिकं ख. २. ‘वस्त्वन्तरं शब्दमार्थ वेति ख.
१. निवर्तितम्’ क.