पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१५९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५५
अलङ्कारसर्वस्वम्


पसंपृक्तत्वमस्या अत्यन्तचारुत्वनिबन्धनम् । अत्र च नियमपरिसंख्ययोर्वा- क्यवित्प्रसिद्धं लक्षणं नादरणीयमिति ख्यापनाय नियमनं परिसंख्येति सा- मानाधिकरण्येनोक्तिः । अत एव पाक्षिक्यपि प्राप्तिरत्र स्वीक्रियत इति युगपत्संभावनं प्रायिकम् ।


तथा चारुत्वं भवतीति प्रयोजनम् । अत्यन्तेति । पूर्वोदाहरणेभ्यः । ननु नियमपरिसंख्य भिन्नलक्षणे प्रसिद्धे इति कथं तयोः सामानाधिकरण्यं सूत्रितमित्याशङ्कयाह--अत्रेत्यादि । वाक्यविदो मीमांसकाः । यदाहुः-“विधिरत्यन्तमप्राप्तौ नियमः पाक्षिके सति । तत्र चा- न्यत्र च प्राप्ते परिसंख्या निगद्यते ।।' इति । अत्रायमर्थः। इह कस्यचिदर्थस्य नियमेनाज्ञातस्य विधिः क्रियमाणो यदार्थान्तरनिषेधार्थमपि पर्यवस्यति तदा नियमविधिः । पुनरज्ञातज्ञापन- मात्रपर्यवसित एव भवति । तेन नियमे ‘व्रीहीनवहन्ति इत्यादाववघातमात्रपर्यवसायित्व मेव । दलनादेरपि निषेध्यत्वेन पर्यवसानात् । नापि निषेधमात्र एव तात्पर्यम् । अवघाता- भावे विध्यानिष्पत्तेः । सर्वप्रकारप्राप्तेरप्राप्तांशपरिपूरणस्याप्यभावे विधिः क्रियमाणोऽर्थान्त- रनिषेधमात्रार्थमेव यत्र पर्यवस्यति सा परिसंख्या । तेन ‘पञ्च पञ्चनखा भक्ष्या इत्यादाव- न्यपञ्चनखभक्षणनिषेधमात्रतात्पर्यमेव । न पुनरेतरपञ्चनखभक्षणकर्तव्यतापि । तथात्वे हि। पञ्चानां पञ्चनखानामभक्षणे प्रत्यवायप्रसङ्गो नियमादस्या भेदो वा न स्यात् । नादरणीय- मिति । अनेनैव लक्षणेनोभयोः संग्रहात् । तथा हि नियमै ‘समे देशे यजेत' इत्यादौ या- गस्य समाविषमात्मन्यनेकत्र देशे प्राप्तावेकत्र सम एव नियमनं कृतम् । परिसंख्यायामपि सर्वत्र भक्षणस्य प्राप्तौ पञ्च पञ्चनखविषय एवैकत्र नियमनम् । नन्वत्र पञ्चपञ्चनखान्तर- निषेधमात्रतात्पर्यात्पञ्चपञ्चनखविषये भक्षणनियमनेन वाक्यार्थत्वमिति कथमुभयानुगाम्ये- तल्लक्षणमिति चेत् । सत्यम् । अस्ति तावदामुखे पञ्चपञ्चनखविषये भक्षणे विधिः । यदा- स्यार्थान्तरनिषेधपर्यवसायित्वं तदेव जीवितभूतत्वेनेहालंकारत्वप्रतिष्ठापकम् । तच्च नियम- परिसंख्ययोः समानम् । अथ नियमे विधिनिषेधयोर्वाक्यार्थत्वं परिसंख्यायां च निषेधस्यैवे- त्यनयोर्महान्भेद इति चेत् । न । आस्ति तावाद्विधैरर्थान्तरे निषेधपर्यवसायित्वं समानं यन्निबन्धनमनयोरलंकारत्वम् । यत्तु नियमे विधावपि तात्पर्यं न तु परिसंख्यायाम् । तदनौ- पयिकवादिहानादरणीयम् । न हीह पचानां पञ्चनखानामभक्षण एव प्रत्यवायः प्रसज्यते येन विधिनिषेधतात्पर्याभ्यामनयोरलंकारभेदः स्यात् । तथात्वे च सर्वालंकारभेदानां भेदहे- त्वतिशयादिसंभवाद्भिन्नलक्षणप्रसङ्गेऽलंकारानन्त्यं स्यात् । अतश्चैतद्भेदत्वमेव नियमस्य वा- च्यम् । तदाह-अत एवेत्यादि । स्वीक्रियत इति । भेदत्वेनेत्यर्थः । सा च यथा-किमासेव्यं पुंसाम् इत्यादौ । द्युसरित्तटेश्वरयोः सेवाया न युगपत्संभावनमिति नि- षेधपर्यवसायी द्युसरित्तट एवैकत्र सेवाया नियमः कृतः । अत एव च तत्प्रायिकमित्युक्तम् ।


१. ‘भेदहेत्वातिशयांशसंभवात्’ स्ख.