पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४
काव्यमाला ।

ऽलंकारवत्वेन चित्राख्यः काव्यभेदस्तृतीयः । तत्रोत्तमो ध्वनिः । तस्य लक्षणाभिधामूलत्वेनाविवक्षितवाच्यविवक्षितान्यपरवाच्याख्यौ द्वैौ भेदौ । आद्योऽप्यर्थान्तरसंक्रमितवाच्यात्यन्ततिरस्कृतवाच्यत्वेन द्विविध । द्वि तीयोऽप्यसंलक्ष्यक्रमसंलक्ष्यक्रमव्यङ्गयतया द्विविधः । लक्षणमूलशब्दश क्तिमूलो वस्तुध्वनिरसंलक्ष्यक्रमव्यङ्गय: । अर्थशक्तिमूलो वस्तु(रसादि) -

यितुमाह-लक्षणेत्यादि । लक्षणामूल इत्यविवक्षितवाच्य । शब्दशक्तिमूल इति न पुनरर्थशक्तिमूलः । यद्यपि शब्दशक्तिमूलेऽर्थशक्तिरप्यस्ति तथापि तत्र तस्याः सहका रितया व्यवस्थानमिति प्राधान्याच्छब्दशक्तिमूलत्वमुक्तम् । एवमर्थशक्तिमूलत्वेऽपि ज्ञे यम् । वस्तुध्वनिरिति । रसालंकारव्यतिरिक्तस्य वस्तुमात्रस्य ध्वन्यमानत्वात् । तत्रार्थान्तरसंक्रमितवाच्यो वस्तुध्वनिर्यथा-‘स्न्निग्धश्यामलकान्तिलिप्तवियतो वेल्द्धल लाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठो रहृदयो रामोऽस्मि सर्व सहे वैदेही तु कथं भविष्यति हद्दा हा देवि धीरा भव ।।' अत्र रामशब्दो राज्यनिर्वासनाद्यसंख्येयदुःखभाजनत्वस्वरूपं वस्तु ध्वनति । अत्यन्ततिर स्कृतवाच्योऽपि यथा-‘रविसंक्रान्तसौभाग्यस्तुषारावृतमण्डलः । निःश्वासान्ध इवाद र्शश्चन्द्रमा न प्रकाशते ॥’ अत्रान्धशब्दः स्वार्थे निमित्तीकृत्यादर्शनसाधारणविच्छाय त्वादिधर्मजातं वस्तुरूपं व्यनक्ति । रसादीति । आदिशब्दाद्भावतदाभासादयः । तत्र रसध्वनिर्यथा -‘त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायामात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालिप्यते मे क्रूरस्तस्मिन्नपि न स हते संगमं नौ कृतान्त ॥’ अत्र विभावानुभावव्यभिचारिभिरभिव्यक्त एव रस । भावध्वनिर्यथा-‘जाने कोपपराङ्खी प्रियतमा स्वप्रेऽद्य दृष्टा मया मा मा संस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता ततः । नो यावत्परिरभ्य चाटुकशतैराश्वासयामि प्रियां भ्रातस्तावदहं शठेन विधिना निद्रादरिद्रीकृत ।’ अत्र विधिं प्रत्यसूयाख्यो व्यभिचारिभावः । रसाभासध्वनिर्यथा -‘स्तुमः कं वामाक्षि क्षणमपि विना यं न रमसे विलेभे कः प्राणान्नणमखमुखे यं मृगयसे । सुलग्ने को जातः शशि मुखि यमालिङ्गसि बलात्तपःश्रीः कस्यैषा मदनगरि ध्यायसि तु यम् ॥’ अ त्रानेककामुकविषयोऽभिलाष इति रसाभास । भावाभासध्वनिर्यथा-‘राकासुधाक रामुखी तरलायताक्षी सा स्मेरयौवनतरङ्गितविभ्रमास्या । तत्कि करोमि विदधे कथ मत्र मैत्रीं तत्स्वीकृतिव्यतिकरे क इवाभ्युपायः ॥' अत्रानौचित्यप्रवृत्ता चिन्तेति भावा भासः । भावप्रशमो यथा-‘एकस्मिञ्शयने पराद्मुखतया वीतोत्तरं ताम्यतोरन्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोगौरवम् दंपत्योः शनकैरपाङ्गवलनामिश्रीभवचक्षुषोर्भग्नो

मानकालिः सहासरभसव्यावृत्तकण्ठग्रहः ॥' अत्रासूयायाः प्रशम इति भावप्रशम