पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१६१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१५७
अलङ्कारसर्वस्वम्


न चेदमनुमानम् । समन्याय्यस्य संबन्धरूपत्वाभावात् । असंबन्धे चानुमानानुत्थानात् । अर्थापत्तिश्च वाक्यविदां न्याय इति तज्जातीयत्वेने- हाभिधानम् । इयं च द्विधा । प्राकरणिकादप्राकरणिकस्यार्थापतनमेकः प्रकारः। अप्राकरणिकात्प्राकरणिकस्यार्थापतनं द्वितीयः प्रकारः। आद्यो यथा

पशुपतिरपि तान्यहानि कृच्छादगमयदद्रिसुतासमागमोत्कः ।
कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥'


अत्र विभुवृत्तः प्राकरणिको रोकवृत्तान्तमप्राकरणिकमर्थादाक्षिपति । द्वितीयो यथा

धृतधनुषि बाहुशालिनि शैला न नमन्ति यत्तदाश्चर्यम् ।
रिपुसंज्ञकेषु गणना केव वराकेषु काकेषु ॥'


अत्र शैलवृत्तान्तोऽप्रामाणिको रिपुवृत्तान्तं प्राकरणिकमर्थदाक्षिपति । क्वचिन्यायसाम्ये निमित्तं श्लेषेण गम्यते

<poem>‘अलंकारः शङ्काकरनरकपाठं परिकरो

विशीर्णाङ्को भृङ्गी वसु च वृष एको गतवयाः ।

अवस्थेयं स्थाणोरपि भवति सर्वामरगुरो- र्विंधौ वक्रे मूर्ध्नि प्रभवति वयं के पुनरमी ॥<poem>

अत्र विधौ वने इति श्लिष्टम् । अप्राकरणिकस्थाणुवृत्तान्तात्प्राकर- णिकार्यापतनम्


कस्यार्थसिद्धिस्तेनैवाप्यस्यापरस्यार्थस्येत्यर्थः । नन्वर्थादर्थान्तरप्रतीतेः किमयमनुमानमेव न भवतीत्याशङ्कयाह न चेदमित्यादि । संबन्धरूपत्वाभावादिति । दण्डभक्षणे ह्यपभक्षणं समानन्यायत्वादुचितमापि न निश्चितमेव दण्डभक्षणेऽपि पृथक्प्रवेशावस्थाना- दिना केनापि निमित्तेनापूपानामभक्षणस्यापि भावात् । अनुमानं पुनर्नियतमेवार्थादर्थान्त- रस्यापतनमित्यस्याः पृथग्भावः । इहेति । वाक्यन्यायमूलालंकारप्रस्तावे । द्विविधेत्यनेना- पततोऽर्थान्तरस्य साम्यादिना बहुप्रकारत्वं न तथा वैचित्र्यावहमिति सूचितम् । आपत- तः पुनरर्थान्तरस्योपादानानुपादानाभ्यां संभवत्यस्या वैचित्र्यम् । तत्रोपादाने ग्रन्यकृतैवो- दाहृतम् ।अनुपादाने यथा-‘श्रीशारदापादरजःपवित्रैः स्पृष्टाः समन्ताद्धिमवन्मरुद्भिः । यत्रोल्लसन्निर्भरशास्त्रगर्भसंदर्भिणः सन्त्यापि गर्भरूपाः । तत्र गर्भरूपेभ्योऽन्येषां का ।