पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१६४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६०
काव्यमाला ।


‘अयमेकपदे तया वियोगः प्रियया चोपनतोऽतिदुःसहो मे ।
नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्ररम्यैः ।


एतद्विभिन्नविषयत्वेनोदाहरणम् । एकाधिकरणत्वेनाप्ययमलंकारो दृ- { श्यते । यथा---

बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं
शल्यं यद्विदधाति सा विधुरिता साधो तदाकर्ण्यताम् ।
शेते शुष्यति ताभ्यति प्रलपति प्रम्लायति भ्राम्यति ।
प्रेङ्खत्युल्लिखति प्रणश्यति दलयुन्मूर्छति त्रुट्यति ।।


एवं गुणसमुच्चयेऽप्युदाहार्यम् । केचित्पुनर्न केवढं गुणक्रियाणां व्यस्तत्वेन समुच्चयो यावत्समस्तत्वेनापि भवतीति वर्णयन्ति । उदाहरणम्--

न्यञ्चत्कुञ्चितमुन्मुखं हसितवत्साकूतमाकेकरं
व्यावृत्तं प्रसरत्प्रसादि मुकुलं सप्रेमकम्पं स्थिरम् ।
उद्भ्रूभ्रान्तमपाङ्गवृत्ति विकचं मज्जत्तरगोत्तरं
चक्षुः सास्रु च वर्तते रसवसादेकैकमन्यक्रियम् ॥


अत्राकेकरादयो गुणशब्दा न्यञ्चदित्यादयः क्रियाशब्दा इति सामस्त्येन गुणक्रियायौगपद्यम् ।

प्रसादिसप्रमेत्यादीनां समासकृत्तद्धितेषु संबन्धाभिधानमिति संबन्धस्य वाच्यत्वात् । तस्य च सिद्धरूपत्वेन गुणत्याद्गुणशब्देन गुणयौगपद्यमिति ।


अनेनैव चास्य गुणक्रियाणां युगपदवस्थितैर्भेदद्वयमप्युक्तम् । नैर्मल्यमालिन्ययोर्गुणयोरुपनमनभवनयोश्च क्रिययोर्यौगपद्येनावस्थानम् । विभिन्नविषयत्वेनेति । गुणादीनां बलमुखादिविषयगतत्वात् । अतश्च भिन्नधिकरणोऽयं समुच्चयः । एकेत्यादि । यद्यप्यत्र शयनादीनां शौषणादीनां च क्रियाणामुपनमनभवनादिवत्कालान्तरभावित्वान्न यौगपद्येनावस्थानम् । तथापि तनैरन्तर्येण ज्ञेयम् । एवमिति । यथैवात्रैकविषयत्वेन शयनाद्याः क्रिया इत्यर्थः । तत्तु यथा--‘सितं ज्योत्स्रजालैररुणरुचि संध्याकरभरैस्तमस्तोमैः श्यामच्छवि भपटलैः पीतमपि च। नभो नीलीनीलं रतिरमणलीलाविहरणे स्थली धात्रा चित्रं चतुरमधुना चित्रितमदः ’ अत्र सितादीनां गुणानामेकाधिकरणत्वेन युगपदवस्थानम् । ननु च केकरादयो न्यञ्चदित्यादयश्च यदि गुणक्रियाशब्दास्तत्प्रसादीत्यादयः पुनः किं शब्दा इत्याशङ्कयाह-प्रसादीत्यादि । तस्येति । संबन्धस्य । एतदुपसंहरति--


१. ‘निरातपत्व' ख.