पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१६५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६१
अलङ्कारसर्वस्वम्


द्रष्टव्यम् । एवमयं त्रिधा समुच्चयः ।

एकं समुच्चयं त्रिप्रकारभिन्नं लक्षयित्वा द्वितीयं लक्षयति

एकस्य सिद्धिहेतुत्वेऽन्यस्य तत्करत्वं च ।

समुच्चय इत्येव । यत्रैकः कस्यचित्कार्यस्य सिद्धिहेतुत्वेन प्रक्रान्तस्तत्रान्योऽपि यदि तत्स्पर्धया तत्सिद्धिं करोति तदायमपरः समुच्चयः । न चायं समाध्यलंकारेऽन्तर्भवति । तत्र कस्य कार्यं प्रति पूर्णं साधकत्वम् । अन्यस्तु कार्याय काकतालीयेनापतति तत्र समाधिर्वक्ष्यते । यत्र तु खले कपोतिकया बहूनामवतारस्तत्रायं समुच्चयः । अतः सुमहान्भेदोऽनयोः । स एष समुच्चयः सद्योगेऽसद्योगे सदसयोगे च भवतीति त्रिधा भिद्यते । सतः शोभनस्य सता शोभनेन समुच्चीयमानेन यथा--

‘कुलममलिनं भद्रा मूर्तिर्मतिः,श्रुतिशालिनी
भुजवलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् ।
प्रकृतिसुभगा एते भावा अमीभिरयं जनो
व्रजति नितरां दर्पं राजस्त एव तवाङ्कुशाः ॥



एवमित्यादिना । त्रिधेति । गुणानां क्रियाणां गुणक्रियाणां च यौगपद्येनावस्थानात् । भिन्नाभिनाधिकरणत्वेन यो विशेषः स एतत्प्रपद्य एवेतिन पृथगिहोपात्तः । लक्षयतीति । एकस्येत्यादिना । ए(कः)कस्यचिदिति । यत्र यादृशो विवक्षितस्य । स्पर्धयेति । प्रक्रान्तस्य हेतोः । तत्सिद्धिमिति। कार्यनिष्पत्तिम् । अपर इति । पूर्वसमुच्चयात् । भिन्नलक्षणवात् । ननु यद्येवं तत्कथं वक्ष्यमाणलक्षणः समाधिरेवायं न भवतीत्याशङ्कयाह--न चेति । पूर्णमिति । अन्यनिरपेक्षमित्यर्थः । आकस्मिकमापततो हि कारणान्तरस्य सौकर्येण मुखेन स्वरूपोपचयाधायित्वेन सुष्टुकार्यनिष्पत्तिः प्रयोजनम् । समुच्चये पुनः स्पर्धयैव बहूनामेककार्यकारित्वम् । अत एवात्र खले कपतिकयेति निदर्शनीयम् । एवं च —‘सोवाणारुहणपरिस्समेण कीस्सृविजे विनिस्सरिआ । तेस्वि अहरिदः सनवइअरेणस्सा साणवाच्छिण्णाः ॥' इत्यादौ समुच्चय एव । सोपानारोहणपरिश्रमस्पर्धयैव हरिदर्शनरूपस्यापि कारणान्तरस्य तद्यवच्छेदनिषेधमुखेन श्वासकारित्वोपनिबन्धात् । अत एवात्र न समाधिः । तस्य हि काकतालीयेनापतता कारणान्तरेण कार्यसौकर्यं लक्षणम् । न चात्रैतत्संभवति । न ह्यत्र काकतालीयेन हरिदर्शनरूपस्य कारणान्तरस्यापतनम् । तदर्थमेव सोपानारोहणस्योपक्रान्तत्वात् । नापि तद्योगात्कार्यस्योपोद्व-


१. पुस्तकद्वयेऽप्येषा गाथास्फुटेव. २१