पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१७०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६६
काव्यमाला ।


‘यत्र न प्रमदानां चक्षुरेव सहजं मुण्डमालामण्डनं भारस्तु कुवलयदलमाख्यानि’ इत्यादि । यथा वा

'लावण्यौकस सप्रतापगरिमण्यग्रेसरे त्यागिनां
देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा ।
इन्दुः किं धटितः किमेष विहितः पूषा किमुत्पादितं
चिन्तारत्नमहो मुधैव किममी सृष्टाः कुलक्ष्माभृतः ।


अत्र यथासंख्यमप्यस्तीति प्राक्प्रतिपादितम् ।

'ऐ एहि दाव सुन्दरि कण्णं दाऊण सुणसु वअणिज्जम् ।
तुज्झ मुहेण किसोअरि चन्दो उअमिज्जइ जणेण


अत्रोपमानत्वेन प्रसिद्धस्य चन्द्रमसो निकर्षार्थमुपमेयत्वं कल्पितम् । वदनस्य चोपमानत्वविवक्षात्र प्रयोजिका । क्वचित्पुनर्निष्पन्नमेवौपभ्यमनादरकारणम् । “यथा--


यते तथैव साधुवादादिभिरिति साधुवादादिभिरेव तत्कार्यकरणात्कर्णपूरादीनमाक्षेपः । तस्य च साधुवादादीनामत्यन्तमेव तत्साधर्यात्प्रतिपादनं फलम् । एवं ‘खेलन्तीनां सुरपतिपरीवारवाराङ्गनानां यन्मञ्जीरध्वनितसुभगो रोति कोलाहलोऽयम् । तेनैवास्ते मदननृपतेर्माङ्गलिक्ये प्रबोधे मोघायन्ते पथि पथि गिरः कच्छपारावतानाम् ॥' इत्यत्रापि ज्ञेयम् । यत्पुनरत्रान्यैरुपमानोपमेयत्वस्याविवक्षितत्वमुक्तम्, तत्तेषां तत्स्वरूपानभिज्ञत्वम् । लावण्यादिधर्मश्चात्र नृपचन्द्रयोरनुगामितया निर्दिष्टः । यथा वा --‘तस्याश्चेन्मुखमस्ति सौम्यसुभगं किं पार्वणेनेन्दुना सौन्दर्यस्य पदं दृशौ यदि च ते किं नाम नीलोत्पलैः। किं वा कोमलकान्तिभिः किसलयैः सत्यैव तत्राधरे ही धातुः पुनरुक्तवस्तुरचनारम्भेष्वपूर्वों ग्रहः ' इत्यत्र सौम्यसुभगत्वादि सकृन्निर्दिष्टम् । असकृन्निर्देशस्तु यथा -‘यद्यस्ति तस्याः स्मरशार्ङ्गभङ्गिविलासवेल्लद्भ्रु मुखं नताङ्गयाः। तदिन्दुना किं विहितं विधात्रा सृष्टेन वल्गन्मृगशावकेन।' अत्र वेल्लद्वल्गत्वयोः शुद्धसामान्यरूपत्वं मृगयोस्तु बिम्बप्रतिबिम्बभावः । निकर्षार्थमिति । अन्यथा चन्द्रस्योपमेयत्वकल्पनं निरर्थकं स्यात् । प्रयोजिकेति । उत्कर्षप्रतिपादनात् । अत्रापि साधारणधर्मस्यानुगामितया यथा-'मुखेन सखि पीयूषपेलवेन निशासु ते । उपमानतया चन्द्रं प्रियेणाशिष्यते ध्रुवम् ।' अत्र पीयूषपेलवत्वमनुगामितयोपात्तम् । असकृन्निर्देशस्तु यथा-‘पौलत्स्य विस्तृतविवेल्लदपूर्ववभ्रुकूर्चच्छटाप्रकटितं


१. 'अये एहि तावत्सुन्दरि कर्णं दत्वा ऋणुष्व वचनीयम् । तव मुखेन कृशौदरि चन्द्र उपमीयते जनेन ॥' इति च्छाया. २. ‘निष्पन्नमौपम्यम्’ ख. ३. ‘यथा’ ख-युस्तके नास्ति