पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१७१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६७
अलङ्कारसर्वस्वम्


‘गर्वमसंवाह्यमिमं लोचनयुगलेन किं वहसि भद्रे ।
सन्तीदृशानि दिशि दिशि सरःसु ननु नीलनलिनानि ॥


अत्रोत्कर्षभाज उपमानस्य प्रादुर्भाव एव न्यक्कारकारणम् । अनेन न्यायेनोत्कृष्टगुणत्वाद्यदुपमानभावमपि न सहते तस्योपमाभावत्वकल्पितं प्रतीपमेव । यथा-

‘अहमेव गुरुः सुदारुणानामिति हालाहल तात मा स्म दृप्यः ।
ननु सन्ति भवादृशानि भूयो भुवनेऽस्मिन्वचनानि दुर्जनानाम् ।।


अत्र हालाहलं प्रकृष्टदोषत्वादसंभाव्यमानोपमेयभावमप्युपमानत्वेन निबद्धम् ।
वस्तुना वस्त्वन्तरनिगूहनं मीलितम् । सहजेनागन्तुकेन वा लक्ष्मणा यद्वस्त्वन्तरेण वस्त्वन्तरं निगूह्यते तद-


सृजताद्य च त्वाम्। नीतोऽञ्जनाद्रिरुपमेयधुरां विधात्रा प्रोतुङ्गशृङ्गविवलत्पृथुदाववह्नि- ॥' अत्र वेल्लद्विवलत्वयोः शुद्धसामान्यरूपत्वम्, कूर्चदावयोस्तु बिम्बप्रतिबिम्बभावः । अस्य हि। विच्छित्यन्तरं दर्शयति--क्वचिदित्यादिना । निष्पन्नमिति। सिद्धत्वेनोक्तैः । उत्कर्षभाज इति । अर्थानेत्रयुगलस्य । प्रादुर्भाव इति । उपमानस्याभूतस्योत्पत्तिः । अत एव स्पर्धाबन्धभाजः परस्योत्पादान्न्यकारः । अनेन न्यायेनेति । अत्र यथोपमा नत्वप्रादुर्भावो न्यक्कारकारणं तथैवेत्यर्थः । अतश्च पूर्वस्या एव विश्छित्तेरिदं विभजनं न पुनर्विच्छित्त्यन्तरमिति भावः । प्रतीपमिति । उपमानभावं यो न सहते तस्योपमानत्व परिकल्पनेन प्रतिकूलवर्तित्वात् । यद्यपि प्रकृष्टगुणेनोपमानेन भाव्यं न्यूनगुणेन चोपमेयेन, तथापीदृशप्रकृष्टगुणत्वं यदपेक्षया न्यूनगुणमप्युपमेयं न संभवतीत्यत्र पिण्डार्थः । विवक्षित वैकुण्ठाय श्रियमभिनवां शीतभानुं भवाय प्रादादुच्चैःश्रवसमपि वा वज्रिणे तत्क्व गण्यम् । तृष्णार्ताय स्वमपि मुनये यद्ददाति स्म देहं कोऽन्यस्तस्माद्भवति भुवने वारिधेर्बोधिसत्वः । इत्यत्र पुनरन्यमतेऽपि न प्रतीपम् । लक्ष्म्यादेरधिकगुणस्य न्यूनगुणेनावतारत्वापादनाभावात् । अत्र हि लक्ष्म्यादिदानाद्देहदानस्याधिकगुणत्वं

विवक्षितम् । अत एवाम्बुधेः स्वदेहदानमुत्प्रेक्ष्य को नाम लक्ष्म्यादिदानेनोत्कर्ष इत्यत्र वाक्यार्थः । एतच्च वस्त्विति नालंकार इत्यलमतिविस्तरेण । वस्तुनेति । लक्ष्मणेति । चिह्नरूपेण धर्मेणेत्यर्थः । तस्य

हि सहजागन्तुकत्वेन द्विविधत्वादस्यापि द्विप्रकारत्वमस्तीयनेनोक्तम् । ननु वस्त्वन्तरस्य।


१. ‘तस्यैवोपमानभावकल्पने’ ख.


१. ‘तस्योपमेयत्वपरिकल्पनेन' इति भाति. २. ‘अभिनवं’ ख.