अत्र दृक्तारल्यादिना स्वाभाविकेन लक्ष्मणा मदोदयकृतं दृक्तारल्यादि
तिरोधीयते । आगन्तुकेन यथा-
'ये कन्दरासु निवसन्ति सदा हिमाद्रे
स्त्वरूपातशङ्कितधियो विवशा द्विषस्ते ।।
अप्यङ्गमुत्पुलकमुद्वहतां सकम्पं
तेषामहो बत भेियां न बुधोऽप्यभिज्ञः ।
अत्र हिमाद्रिकन्दरानिवाससामर्थ्यप्रतिपन्नेन शैत्येन समुद्भावितावा-गन्तुकौ कम्परोमाञ्चौ भयकृतयोस्तयोस्तिरोधायकौ । तिरोधायकत्वादेव च
मीलितव्यपदेशः ।
प्रस्तुतस्यान्येन गुणसाम्यादैकात्म्यं सामान्यम् ।
यत्र प्रस्तुतस्य वस्तुनोऽप्रस्तुतेन साधारणगुणयोगादैकात्म्यं भेदानध्यवसायादेकरूपत्वं निबध्यते तत्समानगुणयोगात्सामान्यम् । न चेयमपह्रुतिः।
किंचिन्निबध्य कस्यचिदप्रतिष्ठापनात् । यथा
'मलयजरजसा विलिप्ततनवो नवहारलताविभूषिताः
सिततरदन्तपत्रकृतवक्ररुचो रुचिरामलांशुकाः ।
शशभृति विततधाम्नि धवलयति धरामविभाव्यतां गताः
प्रियवसतिं प्रयान्ति सुखमेव निरस्तभियोऽभिसारिकाः ।
तत्सादृश्यस्य प्रतिपादयिषितत्वात् । न चैवमप्यन्यस्यान्यतया प्रतीतेरस्य भ्रान्तिमत्यन्तर्भावो वाच्यः । तस्य हि प्रकृतवस्त्वाच्छादकत्वेनैव प्रतीतिर्लक्षणम् । इह तु तथात्वेऽपि वस्त्वन्तरस्य पृथक्प्रतिपत्तिरित्यलं बहुना । न चास्य संज्ञामात्रमेतदित्याह-तिरोधायकत्वादिति । अतश्च पूर्वं तदन्वर्थाभिधानं मीलितमित्युक्तं निर्वाहितम् ॥ प्रस्तुतस्येत्यादि । प्रस्तुतस्येयुपमेयस्य । अप्रस्तुतेनेत्युपमानेन । साधारणगुणानां च त्रिरूपत्वमत्रार्थसिद्धम् । तेन साधारणगुणस्यानुगामितया यथा–‘मध्ये जानपदस्त्रेणमुखानाममलत्विषाम् । रोहोरलक्ष्यतामेति यत्र पूर्णेन्दुमण्डलम् ।' अत्रामलकान्तित्वमनुग्राभितया सकृन्निर्दिष्टम् । असकृन्निर्देशस्तु यथा-अभेदमित्यादौ । अत्र स्तबकस्तनयोर्बिम्बप्रतिबिम्बभावः । ललितत्वनर्तितत्वयोः शुद्धसामान्यरूपत्वम् । ननु च प्रस्तुतस्याप्रस्तुतेनापह्नवः क्रियत इति किमयमपह्रुतिरेव न भवतीत्याशङ्क्याह-न चेयमित्यादि ।
१. ‘साधारणधर्माण’ ख. २. ‘राहोरालक्ष्यत’ ख. ३. ‘तुलितत्व' ख. १२