पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१७४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७०
काव्यमाला ।


अत्र मलयजरजसा विलेपनादीनां चन्द्रप्रभया सह ‘अविभाव्यतां गताः इत्यभेदप्रतीतिर्दर्शिता ।

स्वगुणत्यागादत्युत्कृष्टगुणस्वीकारस्तद्गुणः।

यत्र परिमितगुणस्य वस्तुनः संमीपवर्तिप्रकृष्टवस्तुगुणस्य स्वीकरणं स तद्गुणः । तस्योत्कृष्टगुणस्य गुणा अस्मिन्निति कृत्वा। न चेदं मीलितम् । तत्र हि प्रकृतं वस्तु वस्त्वन्तरेणाच्छादितत्वेन प्रतीयते, इह त्वनपह्रुतस्यरूपमेव प्रकृतम् । [यत्र परिमितगुणं वस्तु तस्य समीपवर्तिप्रकृष्टवस्तुगुणस्वीकारं कुरुते स तद्गुणः।] वस्त्वन्तरर्गुणोपरक्ततया प्रतीयत इत्यस्त्यनयोर्मदः। यथा

'विभिन्नवर्णंा गरुडाग्रजेन सूर्यस्य रथ्याः परितः स्फुरन्त्या ।
रत्नैः पुनर्यत्र रुचं रुचा स्वामनिन्यिरे वंशकरीरनीलैः ॥


अत्र रविरथाश्वनामरुणवर्णस्वीकारः। तस्यापि गारुत्मतमणिप्रभास्वीकार इति तद्गुणत्वम् ।

सति हेतौ तद्गुणाननुहारोऽतद्गुणः ।

तद्गुणप्रस्तावात्तद्विपर्ययरूपोऽतद्गुण उच्यते । इह न्यूनगुणस्य विशिष्टगुणपदार्थधर्मस्वीकारः प्रत्यासत्त्या न्याय्यः । यदा पुनरुत्कृष्टगुणपदार्थस-


‘अविभाव्यतां गताःइत्यर्थादुक्तेः । स्वगुणेत्यादि । परिमितेति । स्वीक्रियमाणस्य गुणस्याभावात् । तत्संभवादेव चान्यस्य प्रकृष्टगुणस्वम् । समीपवर्तीत्यनेन गुणग्रहणे योग्यत्वमुक्तम् । अस्मिन्निति । परिमितगुणे प्रकृते । अतश्च नैतत्संज्ञामात्रम् । ननु च प्रकृष्टगुणेन परिमितगुणस्य तिरोधानान्मीलितमेवायं किं न भवतीत्याशङ्कयाह-न चेत्यादि । आच्छादितत्वेनेति । अपह्रुतिस्वरूपत्वेनेत्यर्थः । उपरक्ततयेति । विशिष्टत्वेनेत्यर्थः । तस्येति । अरुणवर्णस्य । अपिः समुच्चये । यथा वा -‘इन्दूदयश्चन्दनमिदुवक्त्रा चैत्रस्तवेत्यादिसहायसंपत् । वपुश्च श्रृङ्गारमयं स मन्ये संतापकस्त्वं हरवह्नियोगात् । अत्र हरवह्निगुणस्य संतांपकत्वस्य स्वीकारः । सतीत्यादि । तद्विपर्ययेति । अत्र हि प्रत्यासत्त्यान्यगुणग्रहणमुक्तम् । इह तु योग्यतायामपि न तद्ग्रहणम् । प्रत्यासत्त्येति । विप्रकृष्टस्य ह्यन्यगुणस्वीकारानुपपत्तिः । यदा त्वेतन्न भवति तदाय-


१. ‘तङ्गणम्’ख. २. ‘समीपवर्तिप्रकृष्टगुणस्य वस्तुनः समीपवर्तिप्रकृष्टवस्तुगुणस्य स्त्री करणभ क. ३. यत्रेत्यादि कोथान्तर्गतः पाठः स्ख-पुस्तके नास्ति. ४. ‘गुणेऽपरक्त’ ख.