पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१७५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७१
अलङ्कारसर्वस्वम्


न्निधानाख्ये हेतौ सत्यपि तद्रूपस्योत्कृष्टगुणस्याननुहरणं न्यूनगुणेनाननुवर्तनं भवति सोऽतद्गुणः । तस्योत्कृष्टगुणस्यासिन्गुणा न सन्तीति । यद्वा तस्याप्रकृतस्य रूपाननुपहारः सत्यननुहरणहेतौ सोऽतद्गुणः । तस्याप्रकृतस्य गुणा नास्मिन्सन्तीति कृत्वा । क्रमेण यथा

‘ध्रुवलो सि जह वि सुन्दर तह वि तुए मज्झ रञ्जिअं हिअअम् ।
राअमरिए वि हिअए सुहअ णिहितो ण रत्तो सि ॥'
‘गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जतः ।
राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते ॥


पूर्वत्रातिरक्तहृदयसंपर्कान्नायकस्य धवलशब्दवाच्यस्य प्राप्तमपि रक्तत्वं न निष्पन्नमित्यतद्गुणः । उत्तरत्राप्रकृतस्य गाङ्गयामुनजलस्य संपर्केऽपि न तथा रूपत्वमित्ययमप्यतद्गुण एव ।

कार्यकारणभावस्य चात्राविवक्षणान्न विषमालंकारावकाशः ।


मलंकार इत्याह--यदेत्यादि । उकृष्टगुणस्येत्यनेन व्याख्यान्तरे द्वयोरपि गुणत्वं सूचितम् । एवं च प्राप्तेऽप्यन्यगुणस्वीकारे तदभावोऽयमलंकारः । यदुक्तम्--तद्रूपाननुहारवेदस्य तत्स्यादतद्गुणः' इति । अस्मिन्निति । न्यूनगुणे । यद्वेति पक्षान्तरे । अप्रकृतस्येति । अननुदाहरणीयगुणस्यान्यस्य । तदेवं व्याख्यानद्वयेनास्य प्रकारद्वयं दर्शितम् । अननुदाहरणाख्यस्य सामान्यस्यानुगमात् अतिरिक्तत्वेनात्युत्कृष्टगुणत्वं हृदयस्य दर्शितम् । अयमपीति । समानगुणत्वेनापीत्यर्थः । धवलो सीति । तत्तद्गुण एवेति ग्रन्थैकदेशस्तु क्वचिल्लेखकैः कल्पित इत्युपेक्ष्य एव। पुस्तकान्तरेष्वस्यादृष्टेः । न च गाथाव्याख्यानं प्रस्तुतं येनात्रालंकारान्तरस्यापि व्याख्यानं स्यात् । नाप्यत्र तद्गुणः । तस्य हि स्वगुणत्यागेनाप्यन्यगुणस्वीकारो लक्षणम् । न चात्र स्वगुणत्यागो नाप्यन्यगुणस्वीकारः । तस्य धवलत्वव्यभिचारात् । किं त्वत्र कारणाभावेऽपि कार्योत्पादनाद्विभावना, न तु विरूपकार्योत्परया विषमालंकारः । तत्र हि कार्यकारणयोर्विरूपत्वेऽप्यबाध्यमानतया प्रतीतिः । इह त्वेकस्य बाध्यमानतयेति महाननयोर्भेदः । नन्वत्र सत्यपि कारणसामग्र्येऽन्यगुणानुदाहरणरूपस्य कार्यस्यानुत्पतेः किमयं विशेषोक्तिरेव न भवतीत्याशङ्कयाह-कार्येत्यादि । अविवक्षणादिति । वस्तुतस्तु संभवत्येव कार्यकारणभावः । अत एवालंकारसारकृता विशेषोक्त्यन्तर्भाव एवोक्तः ।


१. ‘धवलोऽसि यद्यपि सुन्दर तथापि त्वया मम रञ्जितं हृदयम् । रागभहितेऽपि ह दये सुभग निहितो न रक्तोऽसि ॥ ' इति च्छाया.