पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१७६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७२
काव्यमाला ।


उत्तरात्प्रश्नोन्नयनमसकृदसंभाव्यमुत्तरं चोत्तरम् ।

यत्रानुपनिबध्यमानोऽपि प्रश्न उपनिबध्यमानादुत्तरादुन्नीयते तदेकमुत्तरम् । न चेदमनुमानम् । पक्षधर्मतादेरनुद्देशात् । यत्र च प्रश्नपूर्वकमसंभावनीयमुत्तरं तच्च न सकृत् तावन्मात्रे चारुत्वाप्रतीतेः । अतश्चासकृन्निबन्धे द्वितीयमुत्तरम् ।

न चेयं परिसंख्या । व्यवच्छेद्यव्यवच्छेदकपरत्वाभावात् । क्रमेण

‘एकाकिनी यदबला तरुणी तथाह-
मस्सद्गृहे गृहपतिश्च गतो विदेशम् ।


ग्रन्थकृता तु प्राच्यानुरोधाल्लक्षितः 'विषमालंकार-’ इति पाठस्तु पुस्तकान्तरेषु स्थितोऽप्यत्रायुक्तः । न हि कार्यकारणभावविवक्षामात्रेणात्र तत्त्वं स्याद्येन तन्निषेधेन तस्यानवकाशः । तस्य हि विरूपस्य कार्यस्यानर्थस्योत्पत्तिश्च लक्षणम् । उत्तरादित्यादि । उन्नीयत इति । प्रश्नरूपत्वेन संभाव्यत इत्यर्थः । ननु चाप्रतीतस्य प्रत्ययनात्किमिदमनुमानं न भवतीत्याशङ्कयाह-न चेदमित्यादि । असंभावनीयमिति । कविप्रतिभानिवर्तितमित्यर्थः । तदिति । प्रश्नपूर्वकमुत्तरम् । एवं प्रश्नस्याप्यसकृदेवोपनिबन्धो न्याय्यः । अतश्चेति । सकृदुत्तरस्य चारुत्वाप्रतीतेः । एवं समानन्यायत्वात्पूर्वत्राप्यनुपनिबध्यमानप्रश्नागूरकमुत्तरं न सकृत्, तावन्मात्रेण चारुत्वाप्रतीतेरित्याश्रयणीयम् । ननु च प्रश्नोत्तररूपत्वादियं परिसंख्यैव किं न भवतीत्याशङ्कयाह-न चेयमित्यादि । एतच्चोत्तराख्यमलंकारद्वयम् । न पुनरेकः , सामान्यलक्षणायोगात् । एतच्चौदाहरणद्वयं ग्रन्थकृता प्राच्यमतानुरोधेन दत्तम् । वस्तुतस्त्वत्र नास्त्येतदलंकारद्वयम् । अत एवैतावतालंकारसारकारादिभिरेतदलंकारद्वयमपास्तम् । न च तद्युक्तम्, लक्षणदोषाभावात् । उदाहरणान्तरेष्वस्य प्रतिष्ठानात् । तत्तु यथा—भिक्षो कथा श्लथा किं ननु शफरवर्षे जालिकैषात्सि मत्स्यान्मध्ये मद्यावदंशं पिबसि मधु समं वैश्यया यासि वेश्याम् । हत्वारीन्किं करिष्ये कति तव रिपवः संधिभेत्तास्मि येषां चोरस्त्वं श्रुतहेतोः कथमसि कितवो येन भिक्षुर्नमस्ते । अत्र हि शफरबन्धजालिकैषेत्युत्तरान्मत्स्यादनरूपस्य प्रश्नस्योन्नयनम् । एवमन्यदपि ज्ञेयम् । ‘येन दासीसुतोऽस्मि’ इति पुनः पाठो ग्राह्यः । दासीसुतत्वे कितवस्य निमित्तत्वाभावात् । प्रश्नोत्तरोन्नयनस्यासमातेः साकाङ्क्षत्वाद्वाक्यार्थस्याविश्रान्तेः । द्वितीयो यथा-‘पुंसः संबोधनं किं विदधति करिणं के रुचोऽग्नेर्भिषक्किं का शून्या ते रिपूणां नरवर नरकं कोऽवधीत्क्रीडनं किम् । के वा वर्षासु न स्युस्तृणमिव हरिणा किं नखाग्रेविभिन्नं विन्ध्याद्रौ पर्यटन्को विधटयति तनुर्नर्मदावारिपूरः ॥’ ‘नर्मदा-