पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१७७

एतत् पृष्ठम् परिष्कृतम् अस्ति
१७३
अलङ्कारसर्वस्वम्


कं याचसे तदिह वासमियं वराकी
श्वश्रूर्ममान्धवधिरा नैनु मूढ पान्थ ॥’
‘की विसमा देवगई किं लद्धं जं जणो गुणग्गाही ।
किं सोक्खं सुकलत्तं किं दुक्खं जं खलो लोओ ॥ '


पूर्वत्र मम वासो दीयतामिति प्रश्न उत्तरादुन्नीयते । उत्तरत्र दैवगत्यादिनिगूढत्वादसंभाव्यमसकृत्प्रश्नपूर्वकमुत्तरं निबद्धम् । इतः प्रभृति गूढ़ार्थप्रतीतिपरालंकारलक्षणम्—

संलक्षितसूक्ष्मार्थप्रकाशनं सूक्ष्मम् ।

इह सूक्ष्मः स्थूलमतिभिरसंलक्ष्यो योऽर्थः स यदा कुशाग्रमतिभिरिङ्गिताकाराभ्यां संलक्ष्यते तदा तस्य संलक्षितस्य विंदग्धं प्रति प्रकाशनं सूक्ष्ममलंकारः । तत्रेङ्गिताद्यथा

‘संकेतकालमनसं विटं ज्ञात्वा विदग्धया ।
हसन्नेत्रार्पिताकूतं लीलापद्मं निमीलितम् ॥'


अत्र संकेतकालाभिप्रायो विटसंबन्धिना भ्रूक्षेपादिना इङ्गितेन लक्षितः रजनिकालभाविना लीलापद्मनिमीलनेन प्रकाशितः । आकाराद्यथा--


वारिपूरः’ इति सभङ्गासभङ्गत्वेन त्रिरुत्तरम् । अत्र च यथोक्तमनुमानपरिसंख्यावैलक्षण्यं सुस्पष्टमेवेति ग्रन्थविस्तरभयान्नोक्तमिति । अधुनालंकारान्तराणां लक्षणं कर्तुमुपक्रमते-इत इत्यादि । एतदेव व्याचष्टे-इहेत्यादि । इङ्गिताकाराभ्यां सूक्ष्मार्थसंलक्षणादस्य भेदद्वयमप्युक्तम् । एवं संलक्षितस्यार्थस्य प्रकाशनमयमलंकार इत्यत्र तात्पर्यम् । ‘कुतोऽपि लक्षितः सूक्ष्मोऽप्यर्थोऽन्यस्मै प्रकाश्यते । धर्मेण केनचिद्यत्र तत्सूक्ष्मं परिदृश्यते ।’ किं च ‘यत्र कर्णोत्पलन्यस्तहस्तदीपावलोकिनी । दृष्ट्वा वधूः प्रियौपान्ते सखीभिः प्रतिमुच्यते ॥’ इत्येतद्भन्थप्रक्रिययालंकारोदाहरणजातं कुर्वताप्यलंकारभाष्यकृतासूक्ष्मालंकारे यत्तदनुगुणमुदाहृतं तत्रायमाशयः -यत्सूक्ष्मस्यार्थस्य संलक्षणमात्रं प्रकाशनमात्रं वाप्ययमेवालंकार इति । अत एवात्र सखीभिः सुरतोत्सुकत्वं संलक्षितम् । कर्णात्पलन्यासादिना प्रकाशितमित्युभयार्थसहितत्वम् । तदेवमादौ सूक्ष्मालंकार एव


१. ‘न शृणोति कश्चित्’ क. २. ‘का विषमा दैवगतिः किं लधं यजनों गुणग्राही। किं सौख्यं सुकलत्रं किं दुःखं यखळो लोकः ॥’ इति च्छाया.