मलंकरणमस्ति । इह तु तस्य संभवाद्यतिरिक्तापदुतिरिति पृथगयमलंकारो
निर्दिष्टः ।
अन्यथोक्तस्य वाक्यस्य काकुश्लेषाभ्यामन्यथा योजनं वक्रोक्तिः।
उक्तिव्यपदेशसाम्याद्वयाजोक्त्यनन्तरमस्या लक्षणम् । यद्वाक्यं केनचिदन्यथाभिप्रायेणोक्तं सदपरेण वक्रा काकुप्रयोगेण श्लेषप्रयोगेन वान्यथान्यार्थघटनया योज्यते तदुक्तिः सा वक्रोक्तिः । काकुप्रयोगेन यथा
‘गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् ।
अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ ।
अत्रैतद्वाक्यं नायिकया आगमननिषेधपरत्वेनोक्तम् । तत्सख्या काकुप्रयोगेण विधिपरतां प्रापितम् । काकुवशाद्विधिनिषेधयोर्विपरीतार्थसंक्रान्तिः।
तदित्यपदवाय सादृश्यम् । तत्रेति । श्लेषे । तन्मत इति। उद्भटमते । तस्येति । व्याजोक्त्याख्यस्यालंकारस्य । तद्वयतिरिक्तेति । अपह्रुतौ हि प्रकृतमेवोत्कर्षयितुमप्रकृतस्योपादानम् । इह तूद्भिन्नं सत्प्रकृतं वस्तु वस्त्वन्तरेणाप्रकृतेन निगृह्यते इत्यनयोर्महान्भेदः । एवं ‘आकृष्यादौ’ इत्यादौ च लोकात्मवस्त्वन्तरप्रक्षेपेणोद्भिन्नप्रियनिगूहनस्यैव वाक्यार्थत्वाद्वयाजोक्तिरेव न पुनरपह्रुतिः। अत एव च नात्र वक्रोक्तिः । तस्य हि यथायोजनमात्रं लक्षणम् । अन्यथेत्यादि । एतदेव व्याचष्टे--यद्वाक्यमिति । अन्याभिप्रायेणेति । विवक्षितार्थपरतयेयर्थः । काकुः ध्वनिविशेषः । यदुक्तम्-वाक्याभिधेयमानेऽर्थे येनान्यः प्रतिपद्यते । भिन्नकण्ठध्वनिर्धगर्धीरैः स काकुरिति कथ्यते । अभ्यार्थघटनयेति । प्रक्रान्तादन्यस्य व्यतिरिक्तस्यार्थस्य घटनोल्लेखनेनेत्यर्थः । येनकेनचिद्वक्राभिप्रेतार्थस्य प्रतिपादयिषयोक्तस्य वाक्यस्यान्येन विघाताय प्रहेलिकामात्रार्थं ‘नवकम्बलकोऽयं माणवकः' इत्यादिना वाक्छलेनान्यथायोजनमात्रमयमलंकार इति पिण्डार्थः । अत एव द्वितीयो व्याघातो नास्या भेदतया वाच्यः । न हि तत्र वचनविघातायैवान्यथा योजनम् । तत्र हि ‘बाल इति सुतरामपरित्याज्योऽस्मि, रक्षणीय इति भवद्भुजपञ्जरं रक्षास्थानम्’ इत्यादौ बालत्वादिकं प्रस्थानविशेषतया राज्यवर्धनेन संभावितं श्रीहर्षेण पुनरन्यथा प्रस्थाननिमित्ततया योजितम् । अतश्चत्रान्यथा योजनस्य प्रस्तुतवस्तुव्याहृतिनिबन्धनत्वेऽपि प्रस्थानविधौ तात्पर्यम् । न तद्विघातमात्रेणास्य वक्रोक्तावन्तर्भाव इति चेत्, तर्हि साधर्म्यविशेषादुपमेयोपमादीनामप्युपमायामन्तर्भावः किं न स्यात् । अथात्र फलभेदोऽस्तीति कथमेतदिति चेत्, एवमिहापि फलभेदस्य विद्यमानत्वात्कथमस्यान्तर्भावः स्यात् । तथा ह्यन्य-
१. ‘अन्याभिप्रायेण स्ख.
१. ‘श्रीकण्ठेन’ ख.