पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१८

एतत् पृष्ठम् परिष्कृतम् अस्ति
१६
काव्यमाला ।

इहार्थपौनरुक्त्यं शब्दपौनरुक्त्यं शब्दार्थपौनरुक्त्यं चेति त्रयः

आदौ पौनरुक्त्यप्रकारवचनं वैक्ष्यमाणालंकाराणां कक्षाविभागघटना र्थम् । अर्थापेक्षया शब्दस्याप्रतीतावन्तरङ्गत्वेऽपि प्रथममर्थगतधर्मनिर्देश श्चिरंतनप्रसिद्धा पुनरुक्तवदाभासस्य पूर्व लक्षणार्थः । इहेति शाब्दप्रस्तावे । इतिशब्दः प्रकारे । त्रिशब्दादेव संख्यापरिसमाप्तिसिद्धेः । तत्रार्थपौनरुक्त्यं प्ररूढं दोषः ।

प्ररूढाप्ररूढत्वेन द्वैविध्यम् । प्रथमं हेयवचनमुपादेये विश्रान्त्यर्थम् । तत्रेति त्रयनिर्धारणे । यथावभासनविश्रान्तिः प्ररोहः ।

भूतव्यङ्गयस्याप्यन्यतो भेदजातं योजयित्वा चित्रस्यापि प्रभेदजातं दर्शयितुमाह-चित्र मित्यादि । तुशब्दः काव्यप्रकारद्वयादस्य वैलक्षण्यद्योतकः । अत एव बहुतरप्रभेदमित्यु क्तम्। शब्दार्थेत्येकशेषः। तेनोभयालंकाराणामपि ग्रहणम् । तदेव दर्शयितुमाह--तथाही त्यादि । चित्राख्यकाव्यभेदनिरूपणावसरे किं पौनरुक्त्यप्रकारवचनेनेत्याशङ्कयाह-आा- दावित्यादि । वक्ष्यमाणालंकाराः पुनरुक्तवदाभासादयः पञ्च । शब्दप्रतीतिपुरःसरीका रेणार्थप्रतीतिरिति प्रथमं शब्दगत एव धर्मनिर्देशो न्याय्यो नार्थगत इत्याशङ्कयाह--अ- र्थेत्यादि । चिरंतनप्रसिध्द्येति । न पुनर्युज्यमानतयेति भावः । ‘पुनरुक्तवदाभासं छेकानुप्रास एव चं' इति चिरंतनप्रसिद्धिः । अर्थालंकारत्वादर्थालंकारप्रकरणे पुनरस्य युज्यमानत्वम् । नन्वादौ शब्दगतो धर्मनिर्देशः कार्यः पश्चादर्थगतं इति क्रमस्य न किंचित्प्रयोजनमुत्पश्याम इति किं तेनेति यदन्यैरुक्तं तदयुक्तम् । शब्दार्थयोः क्रमेणैव प्रतीताववभासनात्तथात्वेनैव धर्मनिर्देशस्योपपत्तेः । किं च ‘वर्धमानोत्त्कर्षाणि शा स्राणि प्रथन्ते’ इति नीत्या परिमितचमत्काराणामर्थालंकाराणां पश्चान्निर्देशः कार्य इति सप्रयोजन एव क्रमः । चिरंतनमैतानुलङ्घनेन च वयं प्रवृत्ता इत्ययुक्तमपि ग्रन्थकृता तन्मतमाश्रितम् । अग्रेऽप्यनेनाशयेन तन्मताश्रयणं करिष्यत्येव । तेन वयं यच्चिरंतनमता श्रयणं व्याख्यास्यामस्तद्युक्तमेव । एतदेव यथोद्देशं निर्णेतुमाह-तत्रेत्यादि । किम लंकारप्रस्तावे दोषकथनेनेत्याशङ्कयाह-प्रथममित्यादि । उपादेय इत्यलंकारस्व रूपे । यथेति । यथैव दृष्टस्तथैव पर्यवसित इत्यर्थ । यथा-‘हरिणनयनां सारङ्गाक्षीं कुरङ्गविलोचनां कमलवदनां राजीवास्यां सरोजसमाननाम् । विलुलितकचां चञ्चत्केशीं चलचिकुरोत्करां सुरतविरतौ संभोगान्ते विलोकय कामिनीम् ॥' अत्र सारङ्गाक्षीमि


१. ‘लक्ष्यमाण' क. २. ‘प्ररूढोषः' ख.


१. ‘उत्तं पश्यामः’ क. २. ‘मतोलङ्गनेनैव' क. .