चन्द्रग्रहणेन विना नास्मि रमे किं प्रतारयस्येवम् ।
देव्यै यदि रुचितमिदं नन्दिन्नाहूयतां राहुः ॥
हा राहौ शितदंष्ट्रे भयकृति निकटस्थिते रतिः कस्य ।
यदि नेच्छसि संत्यक्तः संप्रत्येषैव हाराहिः ॥
वसुरहितेन क्रीडा भवता सह कीदृशी न जिह्वेषि ।
किं वसुभिर्नमतोऽमून्सुरासुरान्नैव पश्यसि पुरः ।
आरोपयसि मुधा किं नाहमभिज्ञा किल त्वदङ्कस्य ।
दिव्यं वर्षसहस्त्रं स्थित्वेति न युक्तमभिधातुम् ॥
इति कृतपशुपतिपेलवपाशकलीलाप्रयुक्तवक्रोक्ति ।
हर्षवशतरलतारकमाननमव्याद्भवान्या वः ॥'
वक्रोक्तिशब्दश्चालंकारसामान्यवचनोऽपीहालंकारविशेषे संज्ञितः।
सूक्ष्मवस्तुस्वभावयथावद्वर्णनं स्वभावोक्तिः।
इह वस्तुस्वभाववर्णनमात्रं नालंकारः। तत्त्वे सति सर्वं काव्यमलंकारः स्यात् । न हि तत्काव्यमस्ति यत्र न वस्तुस्वभाववर्णनम् । तदर्थं सूक्ष्मग्रहणम् । सूक्ष्मः कवित्वमात्रस्य गम्यः। अत एव तन्निर्मित एव यो वस्तुस्व-
न्यायेन शब्दश्लिष्टत्वादस्य श्लेषवक्रोक्तावन्तर्भावः स्यात् । उभयमुखेनेति । सभङ्गासभङ्गश्लेषद्वारेण । विजय इति श्लेषस्यासभङ्गत्वम्। मेदुरोदरेणेति सभङ्गत्वम् । ‘स्मेरोऽवताद्वः शिवः’ तथा ‘प्रयुक्तवक्रोक्तिं इत्यादिना वचनविघातमात्रप्रयोजनान्यथा योजनस्य प्रहेलिकाप्रायत्वमेव प्रकाशितम् । ननु ‘सैषा सर्वैव वक्रोक्तिः कोऽलंकारोऽनया विना' इति नीत्या समग्र एवालंकारवर्गे वक्रोक्तिरूप इति कथमयमेव तथात्वेन निर्दिष्ट इत्याशङ्कयाह--वक्रोक्तीत्यादि । इहेति । वाक्छलात्मकत्वेनोक्तेः कौटिल्यात् ॥ सूक्ष्मेत्यादि । ननु कथं वस्तुवर्णनमात्रमलंकार इत्याह-इहेत्यादि । ‘तदतिशयहेतवस्त्वलंकाराःइति नीत्या वस्त्वतिशयदायिनां धर्माणामलंकारत्वात्कथं वस्तुमात्रस्यैवालंकारत्वं स्यादिति भावः । ननु कथमेतत्सूक्ष्ममात्रग्रहणेनैव समाहितमित्याशङ्कयाह- सूक्ष्म इत्यादि । कवित्वमात्रस्येति । कुशाग्रीयाधिषणत्वात् । एवं स्थूलमतीनामकवीनां कुकवीनां तस्यावगमेऽपि तथा विकल्पारोहे न भवेदिति भावः । अत ए-
१. ‘सूक्ष्मम्' ख.
१. ‘सूक्ष्ममित्यादि’ ख. २३