पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१८५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८१
अलङ्कारसर्वस्वम्



इह च लोकोत्तराणां वस्तूनां स्फुटतया ताटस्थ्येन। प्रतीतौ क्वचित्तु लqकिकानामपि वस्तूनां स्फुटत्वेन भाविकस्वभावोक्त्योः समावेशः स्यात् । न

  1. च हृदयसंवादमात्रेण स्वभावोक्तिरसवदलंकारयोरभेदः । . वस्तुसंवादरूपत्वात्स्वभावोक्तेः। चित्तवृत्तसमाधिरूपत्वाच्च रसवदलंकारस्य । उभयसंवाददर्शनेऽपि समावेशोऽपि घटते । यत्र वस्तुगतसूक्ष्मधर्मवर्णनं स्यात्तत्र

स्वभावोक्तिः, अन्यत्र तु रसवदलंकार एव ।


} र्हस्ते रत्नदीपाजिघृक्षतः । दृष्ट्वा हा हेति संभ्रान्ता धात्री चेटैर्विहस्यते ॥’ अत्र धात्रीणा मीदृगयं स्वभाव इति वस्तुनिर्दिष्टो हृदयसंवादः। यथा वा-‘यदास्वाद्यं सीता वितरति तदग्रे स्वगृहिणे सुमित्रापुत्राय प्रणिहितविशेषं तदनु च । यदामं यत्क्षामं यदनतिरसं यच्च विरसं फलं वा मूलं वा रचयति तु तेन स्वमशनम् ॥’ अत्रेदृगेव गृहिणीनां स्वभाव इति संवादः । स्फुटतयेति । पुरःस्फुरद्रूपतया । सा च प्रतीतिर्यथा-'निमीलितस्य पूर्णेन्दोः सुधायां पङ्किलाङ्गुली । यत्र मृत्युजितः पादौ भाव्येते भावितैः पुरः ' । यथा च दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि दत्वा । आसीद्विवृत्त वदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् । अत्र पादयोः शकुन्तलायाश्च शुद्धैव प्रत्यक्षत्वेन प्रतीतिः । ननु च यत्र स्वभावोक्तावपि प्रत्यक्षतया प्रतीतिस्तत्र किमित्याशङ्कयाह-क्वचिदित्यादि । समावेश इति । संसृष्टिरूपः संकररूपो वा ।

  1. स तु यथा—‘हैरम्भोऽत्र हरीश्वरे नखमुखैः कण्डूयमाने गलं कुर्वन्युच्छविवर्तनां निविरतो

रोमन्थलीलायितात् । संमीलन्नयने विसंस्थुललसत्सास्त्रं नतोन्नामितग्रीवं निश्चलकर्णमीश्वरबलीवर्दः सुखं मन्यते । अत्र वृषभस्य पुच्छविवर्तनादिसूक्ष्मधर्मवर्णनेन स्वभावोक्तिः, प्रत्यक्षायमानत्वेन भाविकमित्यनयोः समावेश: । स्वभावोक्तेरपि रसवदलंकारात्प्रसङ्गेन भेदं दर्शयति-न चेत्यादिना । हृदयसंवादो हि वस्तुचित्तवृत्तिगतत्वेन द्विविधः । तत्र स्वभावोक्तौ वस्तुसंवादः प्रदर्शितः । चित्तवृत्तिसंवादस्तु यथा—‘चन्द्रांशुस्मेरधम्मिल्लकमलिकानां प्रियं प्रति । सौधेषु नीतं रामाणां यत्रालिभिरनूद्यते ॥’ अत्र प्रियाभिलाषिणी नायिकाचित्तवृत्तिः सचेतसां स्वचित्तवृत्यभेदेन संवदतीति तत्संवादः। यत्र द्विविधोऽपि संवादस्तत्र किं प्रतिपत्तव्यमित्याशङ्कयाह--उभयेत्यादि । स च समावेशो यथा - ‘किंचित्कुञ्चितचञ्चुचुम्बनमुखस्फारीभवल्लोचना स्वप्ने मोदितचारुचाटुकरणैश्वेतोऽर्पयन्ती मुहुः । कूजन्ती विततैकपक्षतिपुटेनालिङ्गथ लीलालसं धन्यं कान्तमुपान्तवर्तिनमियं पारावतं सेवते । अत्र पारावतयोः सूक्ष्मधर्मवर्णनेन स्वभावोक्तिः, चित्तवृत्तिविशेषाच्च रसवदलंकार इत्यनयोः समावेशः । अन्यत्रेति । यत्र वस्तुगतसूक्ष्मधर्मवर्णना न स्यात् । अनेन च


१. ‘प्रतीते’ ख.


१. ‘गत्वा' ख,