तत्र प्रथमप्रकारविषयोऽयमलंकारो न प्रकारान्तरगोचरः । कविसमर्पितानां धर्माणां ह्यलंकारत्वात् । न हिमांशुलावण्यादीनामिव वस्तुसन्निवेशिनाम् । अपि च ‘शब्दानाकुलता चेति तस्य हेतून्प्रचक्षते’ इति भाम हीये, वाचामनाकुलत्वेनापि भाविकम्’ इति चौद्भटलक्षणे व्यस्तसंबन्धरहितशब्द संदर्भसमर्षितत्वं प्रत्यक्षायमाणत्वप्रतिपादकं कथं प्रयोजकीभवेत् । यदि वस्तुसन्निवेशधर्मिगतत्वेनापि भाविकं स्यात् । तस्माद्वास्तवमेव महत्त्वमुत्तरत्र प्रकारविषये वर्णितमिति नायमलंकारः । यदि तु वास्तवमेवात्र सौन्दर्यं कविनिबद्धं कविनिबद्धवक्तृनिबद्धं वा सकलवक्तृगोचरीभूतं स्व- भावोक्तिवदलंकारतया वर्ण्यते तदायमपि प्रकारो नातीव दुःश्लिष्टः । अत एव ‘प्रत्यक्षा एव यत्रार्थाः क्रियन्ते भूतभाविनः । तद्भाविकम्’ इति, एवमन्यैर्भाविकलक्षणमकारि । स्वभावोक्त्या किंचित्सादृश्यात्तदनन्तरमस्य लक्षणं कृतम् ।
समृद्धिमद्वस्तुवर्णननुदात्तम् ।
स्वभावोक्तौभाविके च यथावद्वस्तुवर्णनम् । तद्विपक्षत्वेनारोपितवस्त्वा
दिना । प्रथमेति । यत्र वर्णनावशात्प्रत्यक्षायमाणत्वम् । अत एव कविसमर्पितधर्मत्वं न वस्तुसन्निवेशिनां धर्माणामलंकारत्वादिति संबन्धः । न हि वस्तुमात्रवर्णने कविकौशलं किंचिदिति भावः । अपि चेति । निपातसमुदायः समुच्चयार्थः । अत्रैव वाक्यगत्या हेत्वन्तरस्य समुच्चीयमानत्वात् । कथमिति । वस्तुमात्रवर्णने शब्दानामकुलताया अनाकुलतायाश्चाविशेषात् । उत्तरप्रकारेति । अनातपत्रोऽपीत्यादौ । अत्रापि प्रकारान्तरेणालंकारत्वं योजयति--यदि त्वित्यादिना । सकलवक्तृगोचरीभूतमिति । कवित्वमात्रगम्यत्वात् । अत एव प्रत्यक्षायमाणत्वस्य तन्निर्मितायमानत्वं स्यात् । सकलवक्तृगोचरीभूतत्वे पुनर्यथोक्तं वास्तवत्वमेवेति भावः । नातीवेति । न पुनः प्रकारवत्सुश्लिष्ट इति यावत् । अत एवेति । वास्तवस्यापि सौन्दर्यस्यात्रालंकारतया वर्णनात्। एतावदेवेति न पुनः शब्दानाकुलत्वादिवस्तुनि तस्याविशेषात् । अन्यैरिति । काव्यप्रकाशकरादिभिः । समृद्धिमादित्यादि । तद्विपक्षत्वेनेति । वस्त्ववस्तुवर्णनयो-
1. ‘उत्तरत्वप्रकारविषये' ख.
१. 'वस्तुसंनिवेशादलंकारत्वादिति संबन्धः’ क.