आमुखावभासनं पुनरुक्तवदाभासम् । आमुखग्रहणं पर्यवसानेऽन्यथात्वप्रतिपत्त्यर्थम् । लक्ष्यनिर्देशे नापुंसकः संस्कारो लौकिकालंकारवैधर्म्येण काव्यालंकाराणामलंकार्यपारतन्त्र्यध्वन नार्थः । अर्थपौनरुक्त्यादेवार्थाश्रितत्वादर्थालंकारत्वं ज्ञेयम् । प्रभेदास्तु
त्यादिषु पुनर्वचनं प्ररूढम् । अप्ररूढं पुनरलंकार । न चैतावतैव दोषाभावमात्रेणालंका रत्वमस्याशङ्कयम् । वक्ष्यमाणनीत्यालंकारत्वोचितस्य विच्छित्तिविशेषस्यापि भावात् । त देवाह-आमुखेत्यादि । अन्यथात्वेति । यथावभातस्यार्थस्य पर्यवसाने तथात्वेनैवा विश्रान्तिरित्यर्थः । अन्यथा द्युक्तनीत्या दोषः स्यात् । ननु पुनरुक्तवदाभासशब्दस्यालंकार शब्दसामानाधिकरण्यादुपमादिवदजहलिङ्गत्वयोगाच्च पुंलिङ्गत्वे किमितीह नापुंसकः संस्कारः कृत इत्याशङ्कषाह-लक्ष्येत्यादि । लक्ष्यस्य लक्षणीयस्य पुनरुक्तवदाभासस्य पुनः श ब्दापेक्षया निर्देशे वचन इत्यर्थः । अलंकार्यपारतन्त्र्येति । काव्यसामानाधिकरण्येन निर्देशात् । लौकिका हारादयः । एषा त्यलंकार्येण सह संयोगः संबन्धः । अत एवैषां त त्परतन्त्रतापि न स्यात् । काव्यालंकाराणां पुनरलंकार्येण सह समवायः संबन्धः । अत एवैषामयतसिद्धत्वादलंकार्यपारतन्त्र्यमेवेति लौकिकालंकारवैधर्म्यमेव न्याय्यम् । आश्रया श्रयिभावेनालंकार्यालंकरणभावोपपत्तेः किमाश्रयमस्यालंकारत्वमित्याशङ्कयाह-अर्थेत्या दि । एवकारः शब्दपौनरुक्त्यावच्छेदद्योतकः । तेन शब्दस्यापौनरुक्यान्न शब्दालंकारो नाप्युभयालंकारोऽयमित्यर्थः । पर्यवसाने वस्तुतोऽर्थस्यासत्त्वात् । धर्म्यभावे च धर्मस्य नि विषयत्वात्पौनरुक्त्यं कस्य धर्मः स्यादिति न वाच्यम् । आमुखेऽर्थस्यावभासमानत्वेन स त्वाद्धर्मिधर्मभावस्य नैवानिष्टेरर्थगतयोः सत्त्वासत्त्वयोरनुपयोगात् । आमुखावगतैव च प्रती तिरलंकारबीजं न पार्यवसानिकी । तथात्वे ह्युपमारूपकादीनामप्यविशेषः स्यात् । पर्यव सानेऽप्यर्थस्य ‘दारुणः काष्ठतो जातः’ इत्यादाविन्धनार्थस्य सत्त्वादनैकान्तिकत्वाभावाच्छ शश्शृङ्गवदभावो न वाच्यः । पर्यवसानेऽप्यत्रेन्धनार्थः सन्नपि नालंकारत्वप्रयोजक इति अरिवधदेहशरीरः' इत्यादावप्यसता कार्यार्थेनाविशेषात्समानः । किं च इतो न पर्यवसा नेऽर्थस्यासत्त्वम् । इह हि प्रतीतिमात्रसारत्वात्काव्यस्य यद्यथैव प्रतीयते तत्तथैव भवतीत्य विवादः । तद्वाधोत्पत्तावपि तैमिरिकद्विचन्द्रप्रतीतिवत् पुनरुक्ततयावभातस्यार्थस्यावभास मानत्वात्सत्वमेव । नहि शतशोऽपि क्रूराद्यर्थोपलम्भे काष्ठादेरर्थस्यापुनरुक्ततया भानमस्ति। बाधोत्पत्तेः पुनर्द्विचन्द्रप्रतीतिवत्पौनरुक्त्यप्रतीतेरनुपपद्यमानत्वं भवति । नतु शुक्तिकायामिव रजतप्रत्ययस्य स्वरूपत एवाभावः । अत एवाभातपौनरुक्त्यापि प्रतीतिरपैौनरुक्त्यपर्यवसा यिन्यस्य स्वरूपम् । एवमपि वस्तुतः कार्याद्यर्थाभावस्तदवस्थ इति चेत्, सत्यम् । किं तु यथा वस्तुतो बहिरसंभवन्नपि द्वितीयश्चन्द्रः प्रतीतौ कंचन विशेषमाधातुं नोत्सहते तथे हापि वस्तुवृत्तेन कायादेरर्थस्यासंभवेऽपि प्रतीतौ न कश्चिद्विशेष इति दिण्डिकाराग एव
१. ‘पर्यवसानान्यथात्व' ख. २. ‘अथ' ख.