‘कि हास्येन न मे प्रयास्यसि पुनः प्राप्तश्चिराद्दर्शनं
केयं निष्करुण प्रवासरुचिता केनासि दूरीकृतः ।
स्वप्नान्तेष्विति वो वदन्प्रियतमव्यासक्तकण्ठग्रहो
बुद्धा रोदिति रिक्तबाहुवलयस्तारं रिपुस्त्रीजनः ॥
ङ्गत्व एव ध्वनिभेदत्वमिति प्रधानेतरकक्षाद्वयाभावादेतेषां भावस्थियुदयसंधिशबलता प्रशमात्मतया कथमलंकारत्वं वाच्यम् । तथात्वे ह्यभिधीयमाने ध्वनिभेदत्वमेषां न स्यात् । असदेतत् । इह हि निर्वेदादीनां त्रयी गतिः । तत्र ‘व्यक्तः स तैर्विभावाद्यैः स्थायीभावो रसः स्मृतःइति नीत्या विभावानुभावस्पर्धयैषां रसव्यञ्जकत्वमेका गतिः । तत्र च रसस्यैव प्राधान्यान्निरतिशयप्रीतिकारित्वेन फलवत्त्वात् ‘फलवरसंधिनावफलं तदङ्गम्’ इति नीत्या रसव्यञ्जकत्वमात्रेणैव कृतार्थत्वान्नास्त्येषां रसव्यक्तिव्यतिरेकि किंचित्प्रयोजनान्तरम् । ‘नायं कञ्चुलिकाविमोक्षसमयः स्पृष्टे न काञ्चीगुणः प्रक्रान्ता न मया विपर्ययरतारम्भाय वा प्रार्थना । न त्वत्कर्तृकमर्थयामि निबिडं दोःकन्दलीबन्धनं तन्निष्कारणमेव बाललवलीवल्लीव कि वेपसे ॥' अत्रालम्बनविभावो लता, वेपनादिरनुभावः, वितर्कश्च व्यभिचारिभावः । एषां चात्र समस्पर्धितया रसव्यञ्जकत्वमात्रमेव प्रयोजनम् । व्यक्तश्च रसः सचेतसां दत्तफल इति नैषां किंचित्फलान्तरम् । अत एव रसाद्यभूतस्य व्यभिचारिणः स्थित्याद्यात्मध्वनिप्रकारत्वं भवतीति न वाच्यम् । तथात्वे चाभिधीयमाने निर्वेदादेः प्राधान्याभावात् ध्वनिव्यपदेश एव न युक्तः। अप्रधानस्य प्रधानत्वाभिधाने विरोधात् । ऍवं च गुणीभूतव्यङ्ग्यस्यापि ध्वनिव्यपदेशः केन प्रयुक्तः । क्वचिदपि ‘मुख्ये रसेऽपि तेऽङ्गित्वं प्राप्नुवन्ति कदाचन’ इति नीत्या राजानुगतविवाहप्रयुत्तभृत्यवद्विभावानुभावव्यञ्जितानां रसगुणीभावेनैषामेव प्राधान्यम् । यथा ‘ --इतश्चारुप्रेमप्रणयसुकुमारा वरवधूरितः स्वेच्छालभ्यानुषमफलमूला वनमही । इतो मौर्वानादोन्मुखनिखिलसैन्यो रणविधिः क्व नामायं सादृक्तरलहृदयो रज्यतु जनः ॥’ अत्र विभावानुभावाभ्यां व्यञ्जितः श्रृङ्गारादीनां रसानामप्ररूढत्वेन गुणीभावाद्वाक्यतात्पर्यविषयत्वेन विश्रान्तेश्चिन्ताख्यो व्यभिचारिभावः प्रधानम् । अत एवात्र भावस्थितेर्ध्वनिभेदत्वम् । एवं चात्र चिन्तायाः श्रृगारादीन्प्रति तदङ्गत्वाभावान्न गुणीभावः । अत एव चात्र तत्परिपोषकत्वात्यागात्तदीयकार्याकरणद्रसं प्रति गुणीभावात्स्वेनैव च निरतिशयप्रीतिकारित्वेन सचेतसां दत्तफलत्वान्निजप्रयोजनासंपादकत्वविरहाद्राजानुगतविवाहप्रवृत्तभृत्यवन्मुख्यानपि रसाननादृत्य चिन्ताया एव वाक्यतात्पर्यविषयत्वेन प्राधान्यादङ्गित्वम् । अत एव
१. ‘तथा तत्वे ह्यभिधीयमाने’ ख. २. ‘अत्रालम्बनविभाव उपावेपनादिरनुभावःक. ३. प्रधानत्वाभिधानविरोधात्’ ख४. ‘एवं गुणीभूत' क. . ‘तरपरि- “प्रधानस्य . ५ पोषकत्वत्यागात्’ ख.