पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१९४

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९०
काव्यमाला ।


भावान्तरस्य तव चण्डि गतोऽपि रोषो
नो गाढवामनतया प्रसरं ददाति ।


अत्र कोपस्य प्रशमः । एवमन्यत्राप्युदाहार्यम् ।

भावोदयो भावसंधिर्भावशबलता च पृथगलंकारः ।

भावस्योक्तरूपस्योदय उद्गमावस्था, संधिः द्वयोर्विरुद्धयोः स्पर्धित्वेनोप-


तादिभ्यो वैलक्षण्यं द्यौतितम् । तेन यत्र भावस्य स्थितिस्तत्रायमलंकारःअन्यथा त्वन्येऽलंकारा इति । एवमिति । यथैतदुदाहृतमित्यर्थः । अन्यत्रेति । ध्वनिवादमते एषामङ्गत्व इत्यर्थः।तत्र प्रेयोऽलंकारः । “कचकुच-' इत्यादिना व्यभिचारिभावापेक्षयोदाहृतः । देवताविषयरत्यात्मभावोपनिबन्धे पुनर्यथा-‘कण्ठेऽर्पययुरगपाशमसूयया मे । यामिन्यधीशशिख यत्समये कृतान्तः । नूनं तदा मुहुरुपैमि फणीन्द्रहार त्वतुल्यतामिति भजे। मरणेऽपि हर्षम् ’ अत्र भवद्विषयाया रतेर्मरणविषया रतिरङ्गमिति प्रेयोऽलंकारः । ऊर्जस्त्री यथा--वन्दीकृत्य नृप द्विषां मृगदृशस्ताः पश्यतां प्रेयसां श्लिष्यन्ति प्रणमन्ति लान्ति परितभूम्यन्ति ते सैनिकाः । अस्माकं सुकृतैर्दशां निगतितोऽस्यौचित्यवारांनिधे विध्वस्ता विपदोऽखिलास्तदिति तैः प्रत्यर्थिभिः स्तूयसे । । अत्र राजविषयस्य भावस्य प्रथमद्वितीयार्धद्योत्यौ रसाभासभावाभासावङ्गम् । व्यभिचारिभावापेक्षया पुनरयं यथा-- ‘द्विषां तवारण्यनिवासमीयुषां नितम्बिनीनां निकुरम्बकं नृप । मुहुर्मुहुरूद्यश्रवलद्विलोचनं न केन पल्लीपतिना निरीक्षितः । अत्र शबराणां परदारविषयमौत्सुक्यमनौचित्येन प्रवृत्तमिति भावाभासो राजविषयां रतिं प्रत्यङ्गम्। समाहितं यथा—‘अविरलकरवालकम्पनैर्भृकुटीतर्जनगर्जनैर्मुहुः । ददृशे तव वैरिणां मदः स गतः क्वापि तवेक्षणे क्षणात् । अत्र राजविषयाया रतेरङ्गभूतस्य शत्रुविषयस्य मदस्य प्रशमः । देवतादिविषयरत्यात्मभावापेक्षया पुनरयं यथा-‘अत्युच्चाः परितः स्फुरन्ति गिरयः स्फरास्तथाम्भोधयस्तानेतानपि विभ्रती किमपि न क्लान्तासि तुभ्यः नमः । आश्चर्येण मुहुर्मुहुः स्तुतिमिति प्रस्तौमि यावद्भुवस्तावद्विभ्रदिमां निरतिशयप्रीतिकारित्वेन स्मृतस्तव भुजो वाचस्ततो मुद्रिताः

॥’ अत्र राजविषयाया रतेरङ्गभूतस्य

भूविषयस्य रत्याख्यभावस्य प्रशाम्यत्वम् । अत एव च समाहितं यदन्यैर्न लक्षितं तदत्यन्तमेवायुक्तम् । तन्मतेऽपि प्रेयोऽलंकारवद्रत्याभावापेक्षयास्य लक्षयितुं युक्तत्वात् । व्यभिचारिभावापेक्षया हि भवद्भिः प्रेयःप्रभृतीनामलंकारत्वं निरस्तम् । यदुक्तम्-‘तस्माद्यभिचारापेक्षया प्रेय ऊर्जस्त्रिसमाहितभावोदयसंधिशबलत्वानि न पृथगलंकाराणि वाच्यामि’ इति । तस्माद्भवन्मतेऽपि समाहितादीनां लक्षणीयत्वं युक्तम् । भावेस्यादि । एतदेव व्याचष्टे-भावस्येत्यादि । उक्तरूपस्येति । व्यभिचारिदेवादिरतिवेन द्विप्रकारस्येत्यर्थः । उद्गमावस्थेति । उद्रमावस्था न पुनरुदितेत्यर्थः । उदितायां हि भावस्य स्थित्यात्मकत्वात्प्रेयोऽलंकार एव स्यात् । एते इति । भावोदय-