पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१९५

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९१
अलङ्कारसर्वस्वम्


निवन्धः, शबलता च बहूनां पूर्वोपमर्देन निबन्धः । एते च पृथग्रसवदादिभ्यो भिन्नालंकाराः ।

एतत्प्रतिपादनं चोद्भटादिभिरेषां पृथगलंकारत्वेनानिर्दिष्टत्वात् । अथ च संकरसंसृष्टिवैलक्षण्येन । एते च सर्वालंकाराः पृथक्केवलत्वेनालंकारा इति सर्वालंकारशेषत्वेनोक्तम् । संसृष्टिसंकरयोर्हि संपृक्ततयालंकाराणां स्थितिस्तद्वैलक्षण्यप्रतिपादनमेतत् । तत्र भावोदयो यथा-

'एकस्मिञ्छयने विपक्षरमणीनामग्रहे मुग्धया
सद्यः कोपपरिग्रहग्लपितया चाटूनि कुर्वन्नपि ।
आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्तत्क्षणा
न्माभूत्सुप्त इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ।


अत्रौत्सुक्यस्योदयः । भावसंधिर्यथा

वामेन नारीनयनास्त्रधारां कृपाणधारामथ दक्षिणेन ।
उत्पुंसयनेकतरः करेण कर्तव्यमूढः सुभटो बभूव ।


६ भावसंधिभावशबलताख्योऽलंकार । ननु च लक्षणस्य भिन्नत्वादेवैषां पृथक्वावगम

इति किं तद्गहणेनेत्याशङ्कयाह--एतदित्यादि । अथ चेति पक्षान्तरे । एत इति ।
पूर्वादिष्टाः । सर्वालंकारा इति । पुनरुक्तवदाभासादिभावशबलान्ता । केवलत्वेनेति । तस्यैवैकस्य वाक्यार्थत्वेन प्ररोहात् । तस्मादङ्गभूतैरलंकारान्तरैरुपस्क्रियमाणो

! वा य एव यत्र वाक्यात्तापर्यविषयत्वेन प्रतीयते स एव तत्र साक्षादलंकार इति भावः।। अत एवात्र संसृष्टसंकरव्यपदेशः । यतस्तयोरलंकाराणां मिश्रवेनावस्थानं लक्षणम् । त देवाह-संसृष्टीत्यादि । यत्तु पूर्वत्र कुत्रचिदुदाहरणेषु संकराद्यलंकारत्वमस्ति तत्तत्र संभवमात्रेण निदर्शनीकृतम् । न तु साक्षादलंकारत्वम् । तत्तत्र तथाविधस्योदाहरणस्य

स्वयमेव लक्ष्यादभ्यूहः कार्यः । एतदुदाहरणत्रयं ध्वन्यभाववादिमतेन ग्रन्थकृतोपात्तम् ।

ध्वनिवादिमतेन पुनरुदाह्रियते । तत्र भावोदयो यथा –‘साकं कुरङ्गकदृशा मधुपानलीलां कर्तुं सुहद्भिरपि वैरिणि च प्रवृत्ते । अन्याभिधायि तव नाम विभो गृहीतं केनापि तत्र विषमामकरोदवस्थाम् । अत्र राजविषयाया रतेरङ्गभूतस्य त्रासस्योदयः । भावसंधिर्यथा—‘असोढा तत्कालोल्लसदसहभावस्य तपसः कथानां विश्रम्भेष्वथ च रसिकः शैलदुहितुः। प्रमोदं वो देव्याः कपटबटुवेषापनयने त्वराशैथिल्याभ्यां युगपदभियुक्तः स्मरहरः ॥' अत्र भगवद्विषयाया रतेरङ्गभूतयोरावेगधैर्ययोः संधिः । भावशबलता यथा -‘प-


१. ‘शबलत्वेनेति क. २. ‘शम्भमात्रेण’ क. ३. ‘दिश्यात्’ ख.