पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१९६

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९२
काव्यमाला ।


अत्र स्नेहाख्यरतिभावरणौत्सुक्ययोः संधिः । भावशबलता यथा-

क्वाकार्यं शशलक्ष्मणः क्व च कुलं भूयोऽपि दृश्येत सा
दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम् ।
किं वक्ष्यन्त्यपकल्मषाः कृतधियः स्वप्नेऽपि सा दुर्लभा
चेतः स्वास्थ्यमुपैहि कः खलु युवा धन्योऽधरं पास्यति ॥'


अत्र वितर्कौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां भावानां शबलता । तदेते चित्तवृत्तिगतत्वेनालंकारा दर्शिताः ।

अधुनैषां सर्वेषामलंकाराणां संश्लेषसमुत्थाषितमलंकारद्वयमुच्यते । तत्र संश्लेषः संयोगन्यायेन समवायन्यायेन च द्विविधः । संयोगन्यायो यत्र भेदस्योत्कटतया स्थितिः । समवायन्यायो यत्र तस्यैवानुत्कटत्वेनावस्थानम् । तत्रोत्कटत्वेन स्थितौ तिलतण्डुलन्यायःइतरत्र तु क्षीरनीरसादृश्यम् । क्रमेणैतदुच्यते

एषां तिलतण्डुलन्यायेन मिश्रत्वं संसृष्टिः ।

उक्तालंकाराणां यथासंभवं यदि क्वचिद्वचनं स्यात्, तदा ते किं पृथक्त्वेन


श्येत्कश्चिच्चल चपल रे का त्वराहं कुमारी हस्तालम्बं वितर हहहा व्युत्क्रमः क्वासि यासि । इत्थं पृथ्वीपरिवृढ भवद्विद्विषोऽरण्यवृत्तेः कन्या कंचित्फलकिशलयान्यादधानाभिधते । अत्र राजविषयाया रतेः शङ्कासूयाधृतिस्मृत्यौत्सुक्यदैन्यौत्सुक्यानां पूर्वपूर्वापमर्देनोपनिबद्धनामङ्गत्वम् । देवताविषयरत्यात्मभावापेक्षया पुनरुदाहरणत्रयं यथा-“त्रिशङ्कोः परिपूर्णानां पुण्यानामस्तलक्षणम् । यदकस्मादुदेत्याशु विश्वामित्रं प्रति स्पृहा । अत्र विश्वामित्रविषयाया रतेरुदयः । ‘परिचुम्बनीयचलकाकपक्षकं तनयं कथं वितरतु क्षितेः पतिः । अभिवन्दनीयतमपादपङ्कजं सहसा प्रतीपयतु वा कथं मुनिम् ।' अत्र सुतमुनिविषययो रत्याख्यभावयोः संधिः । ‘त्याज्यो नैष शिशुः सुतो रघुकुले याति प्रतीपो गुरुस्ताम्यन्त्यस्य सहोदरा विजयते क्षत्रस्य शस्त्रग्रहः । यात्यस्मिन्नवसादमेति हृदयं स्वार्थः परार्थेन मे व्यामुह्यन्त्यमुना विना प्रकृतयो मान्यो मुनिः प्रीयताम् । अत्र पुत्रादिविषयाणां रतीनां पूर्वपूर्वोपमर्देनोपनिबद्वानां शबलत्वम् । अत्र च रते रामचरितं प्रत्यङ्गत्वमित्यलंकारत्वम् ॥ अलंकारान्तरलक्षणं कर्तुं चोपक्रमते--अधुनेत्यादि । अधुनेति प्राप्तावसरम् । एषामिति । पूर्वोद्दिष्टानाम् । तत्रेति । अलंकारद्वये । तस्यैवेति । भेदस्य । स्फुटत्वमस्फुटत्वं च सुस्पष्टमेव । अत एव तिलतण्डुलन्यायः, क्षीरनीर- न्यायश्चेत्युक्तम् । एषामित्यादि । एतदेवोपपादयितुमुपक्रमते-उक्तेत्यादिना ।