प्ररोहः स्यात्तदात्रापि संसृष्टयाद्यभ्युगमे न कश्चिद्दोषः । ननु समग्रताप्रत्यये चित्रज्ञाने वा स्थाल्यादीनां चैकेन्द्रियग्राह्यत्वेन समानजातीयानामेकबुद्धयधिरूढादुपपद्यत एव सामगादेरेकस्य वस्तुनोऽवगमः । इह तु भिन्नेन्द्रियग्राह्यत्वेन भिन्नजातीययोः शब्दार्थयोरेकबुद्धषधिरूढाभावात्तदलंकाराणां युगपत्प्रतीतिरेव नास्तीति कथमेकस्य संसर्गादेर्वस्तुनोऽवभासो यस्यापि संसृष्टपाद्यलंकारान्तरव्यपदेशार्हत्वं स्यात् । अत्रोच्यते । श्रोत्रकरणत्वाच्छब्दावगमस्यैकेन्द्रियग्राह्यत्वात्तदलंकारयोः सजातीयत्वे तावदविवादः । अत एव च तयोरेकबुद्धयाधिरोहाद्युगपत्प्रतीतेः संसर्गावगमः । सति च संशये चारुतातिशयोपसर्जन इत्यत्र संसृष्टाद्यलंकारत्वम् । एवमर्थावगमस्यापि शब्दकरणत्वात्सभानजातीययोः संसृष्टत्वेन प्रतीयमानयोरलंकारयोरपि ज्ञेयम् । शब्दार्थयोः पुनरुपायभेदेऽपि तदलंकाराणां सुगन्धिवन्धूकबोधन्यायेन मानसबोधन्यायेन मानसज्ञानविषयत्वाद्युगपदवभासः सिद्धयतीति लौकिकालंकारवदेव शब्दार्थोभयालंकाराणां संसर्गे लब्धपरभागतयावभासत एव चारुत्वान्तरमिति न्यायप्राप्तमेव संस्रष्टयाद्यलंकारत्वम् । यत्पुनरन्यैः शब्दार्थयोर्भिन्नजातीयत्वे भिन्नेन्द्रियग्राह्यत्वं निमित्तमुक्तं तदुपेक्ष्यमेव । शब्दार्थशरीरे काव्ये शब्दप्रतिपाद्यस्यैवार्थस्याङ्गत्वात्तचक्षुरिन्द्रियग्राह्यस्य बाह्यस्यानौपयिकत्वात् । यद्येवं पूर्वलक्षितानामनुप्रासोपमादीनामभावः स्यात् । असंकीर्णानामलंकाराणामसंभवात्सर्वत्र संसृष्टिसंकरयोरेव भावादेषां विषयापहारात् । नैतत् । असंकीर्णानामलंकाराणां दर्शनात् । तथाहि‘यशोवर्माणमुल्लङ्ग्य हिमाद्रिमिव जाह्नवी । मुखेन प्राविशत्तस्य वाहिनी पूर्वसागरम् । उत्तराः कुरवोऽविक्षुस्तद्भयाज्जन्मपादपान् । उरगान्तकसंत्रासद्विलानीव महोरगाः ॥ जयार्जितधनः सोऽथ प्रविवेश स्वमण्डलम् । भिन्नेभमौक्तिकापूर्णपाणिः सिंह इवाचलम् ॥ राजतान्क्वापि सौवर्णान्क्वापि देवान्विनिर्ममे । पार्श्वेषु मुख्यदेवानां पार्थिवो धनदोपमः । तु: स्वारश्चङ्कुगणश्चक्रे स्वनामाङ्कविहारकृत् भूपचित्तोपमंस्तूपं जिनाईसमयास्तथा ॥ ईशानदेव्या । तत्पत्न्या खाताम्बु प्रतिपादितम् । सुधारसमिव स्वच्छमारोग्यदायि रोगिणाम् । संजग्राह स देशेभ्यस्तांस्तांनन्तरविज्जनान् । विकचान्सुमनःस्तोमान्पादपेभ्य इवानिलः । अभेद्यसारे मयि तु व्यक्तमेवं विधीयते । प्रयासः कुष्ठतां यातो लोहे वज़मणाविव ॥ निर्देशेनैव संपश्य पयः सूतेऽद्य मेदिनी । रसितेनाम्बुवाहस्य रत्नं वैडूर्यभूरिव । इत्युक्त्वा सोऽम्बु निष्क्रष्टुं कुन्तेनोर्वीमदारयत् । उजिहीर्षुवितस्ताम्भः शूलेनेव त्रिलोचनः । श्रुते प्रणष्टे नगरे निःशोकोऽभून्महीपतिः । स्वप्रान्तर्हारिते पुत्रे प्रबुद्धोऽग्र इवेक्ष्यते । अत्रस्थैः सर्वदा रक्ष्यः स्वभेदः प्रभविष्णुभिः । चार्वाकाणामिवैषां हि भयं न परलोकतः ’ इत्यादि राजतरङ्गिण्यां ललितादित्यवर्णने उपमायाः शुद्धमुदाहरणजातम् । एवमत्रैवान्यराजवर्णने प्रबन्धान्तरेषु वा शुद्धाया उपमायाः कियान्विषय इति को नाम ।
दर्शयितुमलम्
उपमैव चानेकलंकारबीजभूतेति तन्निदर्शनमेव कृतम् एवमन्यालंकाराणामपि सहस्रशश्चात्रोदाहरणत्वं संवददपि ग्रन्थविस्तरभयान्न दर्शितम् । तस्मादेषां विषेयत्वं प्रविरलविषयत्वं
१. ‘अविक्षन्' इति राजतरङ्गिण्याम्. २. ‘अविषयत्वं ख.