पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१९९

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९५
अलङ्कारसर्वस्वम्



कारान्तरत्वेऽपि च संयोगन्यायेन स्फुटावगमो भेदः । समवायन्यायेन वास्फुटस्यावगम इति द्वैधम् । पूर्वत्र संसृष्टिः, उत्तरत्र संकरः । अत एव तिलतण्डुलन्यायःक्षीरनीरन्यायश्च तयोर्यथार्थतामवगमयतः । तत्र तिलतडुलन्यायेन भवन्ती संसृष्टिस्त्रिधा । शब्दालंकारगतत्वेन, अर्थालंकारगत त्वेन, उभयालंकारगतत्वेन च । तत्र शब्दालंकारसंसृष्टिर्यथा

‘कुसुमसौरभलोभपरिभ्रमद्भ्रमरसंभ्रमसंभृतशोभया ।
वनितया विदधे कलमेखलाकलकलोऽलकलोलदृशान्यया ॥


अत्रानुप्रासयमकयोर्विजातीययोः संसृष्टिः। अत्रैव ‘अलकलोलकलोल | इति, तथा ‘कलोलकलोल ' इति सजातीययोर्यमकयोः संसृष्टिः। अर्थालंका- रसंसृष्टिर्यथा

देवि क्षपा गलति चक्षुरमन्दतार-
मुन्मीलयाशु नलिनीव सभृङ्गमञ्जम् ।
एष त्वदाननरुचेव विलुण्ठ्यमानः
पश्याम्बरं त्यजति निष्प्रतिभः शशाङ्कः ।


अत्र सजातीययोरुपमोत्प्रेक्षयोः संसृष्टिः।

‘लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नभः ।
असत्पुरुषसेवेव दृष्टिर्निष्फलतां गता ।


च न वाच्यम् । प्रविरलविषयत्वेऽप्युपमादीनां न संसृष्टिसंकरयोरेवं लक्षणीयतया प्राप्ति स्तावन्मात्रविषयस्वीकारायाण्येयं पृथग्लक्षयितुमुचितत्वात् । एवं च न संसृष्टिः । पूर्वहाराच्चारुत्वाभावाच्चेत्याद्युक्तमयुक्तम् । अत एव च ‘तस्मात्समस्तविषये प्रतिबन्धकारे संसृष्टिसंकथने चलिते विदूरम् । प्राधान्यतः स्वविषयं सुविशालमाप्य सर्वोऽप्यलकृतिगणो रसतां चिराय ॥’ इत्याशीर्वचनसूक्तमपि निष्प्रयोजनम् । नन्वेवं यद्यलंकारान्तरत्वं युक्तं तदेक एव संसृष्टिः संकरो वास्तु, किं द्वाभ्यामित्याशङ्कयाह-अलंकारान्तरत्वेऽपि चेति ] श्रीभोजदेवेन पुनर्भेदस्य स्फुटास्फुटत्वमाश्रित्य नानालंकारसंकरः संसृष्टिरिति | संकीर्णमानाभिप्रायेण संसृष्टयाख्य एक एवालंकार उक्तः । विजातीययोरिति ।

यमकानुप्रासयोर्भिन्नलक्षणत्वात् । अत्र च प्रधानस्यानुप्रासस्य परिपोषकत्वेनाङ्गं यमकमिति संकरोदाहरणं न वाच्यम् । अत्र हि यमकसर्गस्योपक्रान्तत्वातत्रैव कवितुः सं-

१. ‘वदनसौरभ' क. २. ‘वलितया’ क.


१. ‘एकलक्षणीय तथा’ क. २. ‘एषा’ क. ३. पुस्तकद्वयेऽप्यत्र च्छन्दोभक्तं दृश्यते। ४. पुस्तकद्वयेऽपि प्रतीकमेतन्न गृहीतम्.