पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/२०

एतत् पृष्ठम् परिष्कृतम् अस्ति
१८
काव्यमाला ।

वास्तवालान्वेषणम् । तस्मादत्रावभासमानत्वमेवार्थस्य सत्त्वप्रतिष्ठापकं प्रमाणम् न त्वव भासमानत्वं प्रमातृधर्म इति कथं तदाश्रयो धर्मः काव्यालंकार इति चेत्, असदेतत् । : । अवभासमानत्वस्यावभास्यनिष्ठतया प्रतीतेरर्थधर्मत्वात् । तथा हेि केषांचन प्रतीतिवादिनां तथाहि नेयता नाम भावस्यैव निजं वपुः । चैत्रेण वेद्यं वेद्मीति किं ह्यत्र प्रतिभासते ।।' इत्याद्युक्तयुक्त्या कौमारिलवन्नीलताया इव वेद्यताया अप्यर्थधर्मत्वमेवेष्टम् । इह च तदुप क्रम एवेति न वस्तुवादसंस्पर्शों न्याय्य: । आमुखतुल्यार्थत्वस्य च शब्दधर्मत्वेन शब्दाश्र गत्वात् शब्दालंकारत्वं यद्यस्योच्यते तथापि पर्यवसाने वस्तुतस्तुल्यार्थत्वस्यासंभवात् : शशश्श्रृङ्गवद्धर्मधर्मिभावो दुष्टः स्यात् । सत्वेऽपि दोष एवेत्यस्मत्पक्षोक्तसमग्रचोद्यावकाशः । अत्रापि यद्यामुख एवैकार्थत्वेनावभासनं समाधिस्तदास्मत्पक्षेण किमपराद्धम् । एवं च :- विरोधेऽपि वस्तुतो विरुद्धस्यार्थस्यासंभवाद्विरुद्धार्थस्य च शब्दधर्मत्वात् शब्दालंकारत्वं प्रसज्यते । अत्र विरुद्धस्यार्थस्यासंभवेऽपि कर्त्रादिभिर्वाच्यतयाध्यवसायः । इह तु पौनरु कत्याश्रयस्यानन्वितत्वेन न वाच्यतेति चेत्, नैतत् । यत: ‘दारुणः काष्ठतो जातः' इ त्यादौ तावत्पौनरुक्त्याश्रयस्य काष्ठादेरर्थस्य जातत्वादिना सहान्वितत्वावगमादस्येव मु ख्यया वृत्या वाच्यत्वम् । ‘अरिवधदेहशरीरः' इत्यादौ तु वस्तुतः कायादेरवाच्यत्वेऽप्य वभातपौनरुक्त्याश्रयत्वादकृत्रिमार्थशोभापर्यवसायित्वेन वाच्यतयास्येव विवक्षितत्वम्। अत्र ह्यकृत्रिमोऽर्थोऽलंकृतकृत्रिमार्थोपस्कृतो यथा चमत्कारकृन्न तथा तदुपस्कृततयोच्यमानः स्यात् । ‘स्त्रीणां हि कण्ठाभरणानि हाराः पयोधरानप्यभिभूषयन्ति’ इत्यादि दृशा च हारस्य कण्ठालंकारत्वेऽपि सामीप्यात्तावतिशोभातिशयाधायकत्वाद्यथा पयोधरादावप्य लंकारत्वं तथैव कृत्रिमार्थाश्रयत्वेऽप्यवभासमानस्य पौनरुक्तस्याकृत्रिमार्थोपस्कारक त्वमपि प्रतीयत एवेति नानुभवापह्रवः कार्यः । एवं च पौनरुक्तयाश्रयस्यार्थस्य यत्रैव वाच्यत्वेन विवक्षितत्वं तत्रैवास्यालंकारत्वं नान्यत्र । ‘अकृष्णपक्षेन्दुमुखी बन्धुजीवाध रद्युतिः । इयं विलासिनी कस्य न नेत्रोत्सवकारिणी ॥’ अत्राकृष्णेत्यर्थपौनरुक्तयस्य संभवेऽपि वाच्यत्वेनाविवक्षितत्वान्नायमलंकारः । एवं वक्ष्यमाणानामप्यलंकाराणां कविविवक्षैव स्वरू. . पप्रतिष्ठापकं प्रमाणं ज्ञेयम् । किं बहुना, सर्वेषामप्यलंकाराणामुपमितार्थत्वादेः शब्दधर्म त्वाच्छब्दालंकारत्वं स्यात् । तदर्थालंकारत्वमस्य ज्यायः । यावता ह्यर्थस्यामुक्त एव पुनरु- } * त्क्ततयावभासोऽस्य जीवितम् । अत एव पुनरुक्तवदाभासमित्यन्वर्थसंज्ञा । अर्थस्य च पौ { नरुक्तयप्रतीतौ न कस्यचिद्विवादः । तामेवाश्रित्य शब्दालंकारस्य भवद्भिरुक्तत्वात् । एवं च प्रत्यासत्तेस्तदाश्रयत्वमेवास्यालंकारत्वं युक्तम् । अन्यथा तुल्यार्थशब्दतापि वाक्यधर्म इति तदाश्रयोऽपि स्यादित्यनवस्थाप्रसङ्गः । अथात्र शब्दस्वरूपवैशिष्ट्यनिबन्धनं चमत्कार कारित्वमिति तदलंकारत्वमिति चेत्, किं नाम शब्दस्य स्वरूपे वैशिष्टषम् । किं पौनरु क्तयम्, उत पुनरुक्तार्थवावित्वम्, उत सभङ्गाभङ्गपदेन श्लिष्टत्वम् । तत्र न तावदाद्यः पक्षः । शब्दस्य द्विरुधारणाभावात्तथात्वाप्रतिभासद्वात्। नापि द्वितीयः । वाच्यवाचकभावेनालं-


१. ‘दृष्टं' ख. २. ‘विरुद्धार्थत्वस्य शब्द' ख .