पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/२००

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९६
काव्यमाला ।


रम्भातिशयाद्यमकस्य प्राधान्यमित्यनुप्रासस्य यमकं प्रति वरमङ्गत्वं युक्तं न पुनर्विपर्ययः सकलवाक्यव्यापिनोऽप्यनुप्रासस्य प्राधान्येनाविवक्षणात् नाप्यत्र परस्परमङ्गाङ्गिभावो युक्तः । इह हि निमित्तानिमित्तभावेनोपकार्योपकारकभावेन चेति द्विधाङ्गाङ्गिभावः तत्राद्यो द्विधा। सार्वत्रिकःप्रादेशिकश्चेति । तत्र सार्वत्रिको यथा विभावनातिशयक्यौः। 'आश्लिष्टातिशयोक्तिस्तु सर्वत्रैव विभावना’ इति दृशा विभावनायाः सर्वत्रैवातिशयोक्त्यपेक्षात् । प्रादेशिको यथा श्लेषातिशयोक्त्योः रजनीमुखम्’ इत्यादौ क्वश्चिदिव श्लेषवशेनातिशयोक्तेरुत्थानात् ‘कमलमनम्भसि’ इत्यादौ श्लेषमन्तरेण तस्याः संभवात् । एतद्भेदद्वयं च न संकरस्य विषयः तस्य स्वहेतुबलाल्लब्धसत्ताकानामलंकाराणां संसर्गे वक्ष्यमाणत्वात् । द्वितीयो यथा—‘अङ्गलीभिरिव’ इत्यादौ । अत्र हि स्वः हेतुबलेन लब्धसत्ताकानामुपमादीनां परस्परमुपकार्योपकारकत्वमात्रं येनाङ्गाङ्गिभावः न ह्यत्रौपमयोः परस्परं स्वरूपनिष्पत्तावुपेक्षा काचित् । एकतराभावेऽप्येकस्याः स्वरूपोस्थानात् । एवमुपमाद्वयपरिहारेण केवलाप्युत्प्रेक्षा स्यात् । स्थितानां पुनरेषामियं चिन्ता। यच्चुम्बने केशग्रहणादेरुचितत्वादुपमाद्युपकारकमुत्प्रेक्षा चोपकार्या येनाङ्गाङ्गिभावः । एवं च तेन प्रधानतायामुपमादीनां निजं निजं नाम। अङ्गत्वे पुनरेषां संकरादीनामङ्गाङ्गिभावेऽपीत्याद्यन्यैरयुक्तमेवोक्तम्। इह पुनर्यमकानुप्रासयोर्निमित्तनिमित्तिभावः। सर्वत्रेवानयौः स्वरूपनिष्पत्तावन्योन्यानपेक्षत्वात् तत्त्वेऽपि समनन्तरोक्तयुक्त्या संकरायोगात् । न च स्वहेतुभ्यो लब्धसत्तकयोरप्यनयोः परस्परमङ्गाङ्गिभावः शब्दालंकारयोः शब्दवदुपकार्योपकारकत्वभावात् अथ वर्णसावण्येन वैचित्र्यातिशयाधायकत्वेनानयोरुपकार्योपकारकभाव इति चेत् । न । इयमेव हि संसृष्टिर्द्वयोर्बहूनां बालंकाराणां परस्परनिरपेक्षाणामपि संसर्गे सति चारुतातिशयप्रतिपत्तिः । एवमर्थालंकारसंसृष्टावपि संकरोदाहरणत्वं न वाच्यम् न हि तत्रोपमोत्प्रेक्षयोः परस्परमुपकार्योपकारकभावाद्यात्माङ्गाङ्गिभावः । यद्येवं दशदाडिमादिवाक्यवचनयोरसंबद्धत्वं स्यादिति चेत्, न । चक्षुरुन्मीलनात्मके एकस्मिन्नेव प्रधानेऽर्थे द्वयोरपि समृद्धत्वात् न च पाकलक्षणमेकमेवार्थमुररीकृत्य ब्यवस्थितानां स्थाल्यादीनामप्यन्यः कश्चित्संबन्धः । अथोपमालिङ्गितस्य चक्षुरुन्मीलनस्योत्प्रेक्षाश्लिष्टः शशाङ्काम्बरयागः पारम्पर्येण हेतुत्वेनोपनिबद्ध इति स्वाश्रयभूतार्थवदनयोरप्यङ्गाङ्गिभावोऽस्तीति चेत् । नैतत् उपमाद्यालिङ्गनाभावेऽपि चक्षुरुन्मीलनादेर्हतुहेतुमद्भावानतिपातादवस्थितत्वे वा तयोरुक्तयुक्त्या परस्परं संबन्धाभावात् नाप्यत्रोपमाया वाक्यार्थत्वम् । तस्या अप्युत्प्रेक्षादिवच्चक्षुरुन्मीलनाङ्गत्वेनावस्थानात् । अत्र हि चक्षुरुन्मीलनस्यैव वाक्यार्थत्वम् । शशाङ्काम्बरत्यागोपपादितस्य क्षपागलनस्य तं प्रत्येव हेतुत्वेनोपनिबन्धात् । एवं परं प्रत्युपसर्जनीभूतयोरवान्तरसंबन्धाभावेऽप्युपमोप्रेक्षयोः संसर्गे सति चारुत्वातिशयोपसर्जन इति यथोक्तमेव संसृष्टयुदाहरणत्वं युक्तम्। एवम् ‘अन्योन्यसंबन्धविवर्जितानामलंकृतीनां विनिवेशनं चेत् । अनन्वितत्वादृशदा-


१. ‘अपेक्षत्वात्’ ख. २. 'लेपमन्तरेणापि’ ख.