पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/२०१

एतत् पृष्ठम् परिष्कृतम् अस्ति
१९७
अलङ्कारसर्वस्वम्


अत्रोपमोप्रेक्षयोर्विंजातीययोः संसृष्टिः। उभयसंसृष्टिर्यथा--

‘आनन्दसुन्दरपुरंदरमुक्तमाल्यं
मौलौ हठेन निहितं महिषासुरस्य ।
पादाम्बुजं भवतु में ' विजयाय मञ्जु
मञ्जीरशिञ्जितमनोहरमम्बिकायाः ’


अत्रोपमानुप्रासयोः संसृष्टिः पादाम्बुजमित्यत्र ह्युपमाया मञ्जीरशिञ्जीतयोगो व्यवस्थापकं प्रमाणम् । स हि रूपके प्रतिकूलः । पारिशेष्यादुपमां प्रसादयति । तदेवं संसृष्टिस्त्रिधा निर्णीता ।

} अधुना क्षीरनीरन्यायेन संकर उच्यते-

क्षीरनीरन्यायेन तु संकरः।

मिश्रत्व इत्येव । अनुत्कटभेदत्वमुत्कट्रभेदत्वं च संकरः। तच्च मि


डिमादिवाक्यादिवद्दूषणमेव तर्हैिं । अथान्वयोऽस्यैव परस्परं तद्गुणप्रधानत्वमवश्यमेष्यम् । तदा न संसृष्टिकथा गुणस्य पराङ्गतायां खलु संकरः स्यात् । एकत्र चेदङ्गिनि संगतं स्याद्वयं तदन्योन्यसमीलनेन । न संकरो नापि न वा गुणत्वे कार्यान्तरोत्पादनशक्तियोगात् ॥’ इत्यायुपेक्षणीयमेव । न चात्रायं चालंकार इत्यार्थोऽलंकारसमुच्चय इति वाच्यम् । धर्मयौगपद्यमन्यस्यापि तस्करत्वं च समुच्चय इत्युक्त्या भवन्मतेऽप्यलंकारयौगपद्यस्य तल्लक्षणत्वाभावात् । तथात्वाभ्युपगमे चायं नाम्नि विवादः। एवं हि संसृष्टया किमपराद्धम् । अत्र चोद्यं करिष्यामि’ इत्याशयेन सजातीययोरुपमयोः संसृष्टिरित्यशुद्धं पठित्वा यदन्यैरुक्तं तदुपेक्ष्यमेव । अत्र हि विजातीययोरुपमोत्प्रेक्षयोः संसृष्टिरिति सर्वत्रैव सुस्पष्टः पाठः । उत्प्रेक्षयोरिति । प्रथमार्धगतयोः। यद्यपि चानयोर्द्वितीयार्धगतय।प्युपमया संसर्गे संसृष्टिरेव, तथापि विजातीययोरुपमोत्पेक्षयोरुदाहृतत्वात्सजातीयाभिप्रायेणैवमुक्तम् । नाप्यत्रोत्प्रेक्षद्वयमुपमाहेतुभूतमिति वाच्यम् । त्रयाणामप्यलंकाराणां

वाक्यार्थीभूतं तमोबाहुल्यं प्रत्यङ्गत्वात् । उभयसंसृष्टिरिति । अनुप्रासोपमयोः शब्दार्थालंकारत्वात् । व्यवस्थापकमिति । मञ्जीरशिञ्जितयोगस्य पादगतत्वेनौचित्यात् । प्रतिकूल इति । अम्बुजस्य मञ्जीरशिञ्जितायोगात् । पारिशेष्यादिति ।
उपमारूपकाभ्यामन्यस्याप्राप्तेः। । एतदेवोपसंहरति-तदेवमित्यादि । त्रिधेति ।
यद्यपि सजातीयविजातीयत्वेनान्यदप्यस्याः संभवति भेदद्वयम्, तथापि तदुद्दिष्टस्यैवान्तर्भवतीति यथोक्त एवायमुपसंहारः । इदानीं संकरमवतारयति---अधुनेत्यादि । तदेवाह

क्षीरेत्यादि । तदिति । यथोक्तरूपम्। त्रिभेदमिति । अङ्गाङ्गिभावादिना । प्रसा-


१. ‘ते’ क.