श्रत्वमङ्गाङ्गिभावेन संशयेन, एकवाचकानुप्रवेशेन च । त्रिधाभवत्संकरं
त्रिभेदमुत्थापयति । क्रमेण यथा--
‘अङ्गुलीभिरिव केशसंचयं संनियम्य तिमिरं मरीचिभिः ।
कुड्मलीकृतसरोजलोचनं चुमतीव रजनीमुखं शशी ॥'
अत्राङ्गुलीभिरिवेत्युपमा, सैव सरोजलोचनभित्यस्या उपमायाः प्रसाधिका । रजनीमुखमिति श्लेषमूलातिशयोक्तिः । प्रारम्भवदनाख्ययोर्मुख्ययोरभेदातिशयात् । अत एव तयोरङ्गाङ्गिभावः । एवं च वाक्योक्तसमासोक्तिः । उपमाश्लेषानुगृहीता चातिशयोक्तिरुपेक्षया ‘चुम्बतीव’ इति
प्रकाशिताया अनुग्राहिका । तद्बलेन तस्याः समुत्थानात् । सा च समुस्थापिता समुत्थापकानां चमत्कारितानिबन्धनमित्यस्यङ्गाङ्गिभावः ।
यथा वा--
‘त्रयीमयोऽपि प्रथितो जगत्सु यद्वारुणीं प्रत्यगमद्विवस्वान् ।
मन्येऽस्तशैलात्पतितोऽत एव विवेश शुद्धै वडवाग्निमध्यम् ।
अत्र प्रथमार्धे विरोधोत्पत्तिहेतुः श्लेषः । दर्शनान्तरे तु विरोधश्लेषौ।
द्वावलंकारौ तदनुगृहीता द्वितीयेऽर्धे मन्येपदप्रकाशितोत्पेक्षा । अतश्चाङ्गाःङ्गिभावः
तथा ह्यत्र यत्कारणमुत्प्रेक्षते तत्र विरोधश्लेषानुप्रवेशः । यच्चात्र कार्यमुत्प्रेक्षानिमित्तं तत्र पतितत्वाग्निप्रवेशौ वस्तुस्थित्या अन्यथास्थितावपि अन्यथाभूताभ्यां ताभ्यामभेदेनाध्यवसितौ ज्ञेयौ । तेनात्राङ्गाङ्गिभावः संकरः। न च विरोधोत्पत्तिहेतौ श्लेषे श्लेषस्य विरोधेन सहाङ्गाङ्गिभावः सं
धिकेति । आनुगुण्यकारित्वेनाङ्गमित्यर्थः। श्लेषमूलेति । श्लेषहेतुकेत्यर्थः । अत्र च यथाङ्गाङ्गितया संकरस्तथा पूर्वमेवोक्तम् । अत एवोपमाद्वयापेक्षयैव तयोरङ्गाङ्गिभाव इयुपसंहारः। श्लेषानुगृहीतेति । श्लेषमन्तरेणास्या अनुत्थानात् । तद्वलेनेति । तेषामुपमादीनां बलेनोपकारकत्वेनेत्यर्थः। समुत्थानादिति । उपकार्यत्वेन । उदाहरणान्तरोपादानं दावाप्ति()प्रदर्शनपरम्। श्लेष इति। औद्भटानामिति शेषः । द्वावलंकाराविति । हेतुहेतुमद्रीपावित्यर्थः। श्लेषमन्तरेण। विरोधस्यानुत्थानात् । तदनुहीतेति । श्लेषमूलविरोधोपकृतेत्यर्थः। अङ्गाङ्गिभावमेव विभजति--तथा हीत्यादिना। कार्यमिति । पतित्वाप्तिप्रवेशलक्षणम् । एतच्चोत्प्रेक्षानुगुण्येन प्रसङ्गादिहोक्तम् । तेनेति । उत्प्रेक्षाविरोधोपकृतत्वेन । ननु विरोधोत्प्रेक्षयोर्यद्वदङ्गाङ्गिभावेन संकरस्तद्वदतिशयोक्त्यापि सह तस्या विरोधश्लेषयोश्च कि संकर उत नेत्याशङ्कयाह--न चेत्यादि । एतच्चोद्भटमतानुसारश्लेषस्य प्राधा-