पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/२०४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२००
काव्यमाला ।


‘यः कौमारहरः स एव हि वरस्ता एव चैत्रक्षपा
स्ते चोन्मीलितमालतीसुरभयः प्रौढाः कदम्बानिलाः ।
सा चैवास्मि तथापि तत्र सुरतव्यापारलीलाविधौ
रेवारोधसि वेतसीतरुतले चेतः समुत्कण्ठते ॥


अत्र विभावनाविशेषोक्त्योः संदेहसंकरः । तथा ह्युत्कण्ठाकारणाभावे उकण्ठाया उत्पत्तौ विभावना । स च कारणाभावो ‘यः कौमारहरः' इत्यादिना कारणविरुद्धमुखेन प्रतिपादितः । तथा च ‘यः कौमारहरः। इत्याद्युत्कण्ठाकारणसद्भावेऽपि अनुत्कण्ठाया अनुत्पत्तौ विशेषोक्तिः । सा चानुत्पत्तिः ‘समुत्कण्ठते’ इति विरोधोत्पत्तिमुखेनोक्ता । अत एव द्वयोरप्य स्फुटत्वमन्यत्रोक्तम् । न चानयोः प्रत्येकं साधकबाधकप्रमाणयोग इति । संदेहसंकरोऽयम् । यथा वा

यद्वक्रचन्द्रे नवयौवनेन श्मश्रुच्छलादुल्लिखितश्चकास्ति ।
उद्दामरामादृढमानमुद्राविद्रावणो मन्त्र इव स्मरस्य ॥'


अत्र वक्रं चन्द्र इवेति किमुपमा, उत वक्रमेव चन्द्र इति किं रूपकमिति संशयः। उभयथापि समासस्य भावात् । ‘उपमितं व्याघ्रादिभिः इत्युपमासमासः । व्याघ्रादीनामाकृतिगणत्वात् । मयूरव्यंसकादित्वातु रूपकसमासः । मयूरव्यंसकादीनामाकृतिगणत्वात् । न चात्र क्वचित्साधक-बाधकप्रमाणसद्भाव इति संदेहसंकरः।


दयति-तथा हीत्यादिना । उत्कण्ठाकारणाभाव इति। कौमारहवराद्यसंनिधानरूपस्य कारणस्याभाव इत्यर्थः। विरुद्धमुखेनेति । तत्संनिधानद्वारेणेत्यर्थः। अत एवेति । द्वयोरपि विरुद्धमुखेनोपनिबन्धात् । अन्यत्रेति । काव्यप्रकाशादौ। उभयथेति। उपमारूपकत्वेनेत्यर्थः । चन्द्रशब्दस्याकृतिगणत्वाद्गणद्वयेनापि हि स्वीकृतत्वमिति भावः । क्वचिदिति । उपमायां रूपके वा। न चैतदलंकारसारकारादीनां मतम्, अलंकाराणां संदेहायोगात् । तथा हि स्थाणुर्वा पुरुषो वेति संदेहः क्वचिदेव कदाचिद्भवति, न तु सर्वदैव सर्वेषां संनिकृष्टानां तदैवानन्तरं त्वन्येषामपि निश्चयोत्पादनात् । सर्वदा सर्वत्र सर्वान्प्रति चालंकारलक्षणं प्रणयनम् । तथात्वे च संदेहोऽयुक्तः, तस्य नियतदेशकालप्र-