पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/२०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति
२०२
काव्यमाला ।


अत्रावतंसनं प्रसूनेष्वनुगुणमिति रूपकपरिग्रहेण साधकं प्रमाणम् । बाधकं यथा--

'शरदीव प्रसर्पन्त्यां तस्य कोदण्डटांकृतौ ।
विनिद्रगृम्भितहरिर्विन्ध्योदधिरजायत ॥


अत्र विन्ध्य उदधिरिवेत्युपमापरिग्रहे विनिद्रगृम्भितहरिरिति साधा. रणं विशेषणं बाधकं प्रमाणम् । ‘उपमितं व्याघ्रादिभिः सह सामान्याप्र योगे’ इति वचनात् । उपमासमासे प्रतिकूलवात् । अतश्च पारिशेष्या- दूपकपरिग्रहः। न तु शरदीवेत्युपमात्रोपमासाधकत्वेन विज्ञेया । न ह्यशे- - येन पञ्चाशस्सिद्धिः। न चैकेनालंकारेणापक्रान्तेन निर्वाहः कर्तव्य इति । राजानैषा। नापि धर्मसूत्रकारवचनम् । नाप्येष न्यायः । उत्तरोत्तरसा यप्रकर्षविवक्षणे प्रक्रान्तोपमापरित्यागेन रूपकनिर्वाहस्योचितत्वात् । वि पर्ययस्तु दुष्ट एव । यथा-‘येनेन्दुर्दहनं विषं मलयजं हारः कुठार यते । तस्मात्प्रकृते सामान्यप्रयोगे उपमापरिग्रहे बाधक इति मयूरव्यंस केनाकृतिगणत्वाद्रपकसमाश्रयेण रूपकमेव बोद्धव्यम् । एवं ‘भाष्याब्धिः । क्वातिगम्भीरःइत्यादौ द्रष्टव्यम् । साधकबाधकाभावे तु संदेहसंकरः। यथोदाहृतम् ।

तृतीयस्तु प्रकार एकवाचकानुप्रवेशलक्षणः । यत्रैकस्मिन्वाचकेऽने- कालंकारानुप्रवेशः, न च संदेहः । यथा


साधारणमिति। सामान्यप्रयोगे हि विन्ध्य उदधिरेवेत्यसमास एव स्यात् । यथा-पुरु योऽयं व्याघ्र इव शूर इति।अतश्चेति । उपमाया बाधकप्रमाणसंभवादप्रभृत्तेः। पारिशे- व्यादिति । न पुनः साधकप्रमाणसंभवादित्यर्थः। उचितत्वादिति । रूपकनिर्वाहेण सा- औ म्यस्याधिक्येन प्रवृत्तिः। विपर्यय इति। रूपकोपक्रमेणोपमानिर्वाहो दुष्ट इति साम्यलाघवेन = प्रतीतेः । स्वेच्छाचारिणि यत्पुरा प्रियसखीवाचस्त्वया नादृता यत्कल्याणपरापुखि प्रियतमः पादानतो नेक्षितः । तस्येदं हरिणाक्षि दुर्नयतरोरश्चापि बालं फलम् ॥’ इति चास्य पदत्र यी । एवं चाधिकप्रकर्षालंकारोपक्रमेण तत्प्रकर्षालंकारैर्निर्वाह न कार्यं इत्यप्यनेन सर्वालं कारशेषत्वेनोक्तम् । प्रकृत इति । शरदीवेत्यादौ । द्रष्टव्यमिति । उपमाया वाधकस्वं प्रति गम्भीरत्वस्य सामान्यस्य हि प्रयोगे उपमासमासे बाधक इति रूपकपरिग्रह एव युक्तः। उदाहतमिति।‘ः कौमारहरः’ इत्यादिना। न च संदेहः इति। संदेहसकारे यद्यप्ये" : कवचकत्वमस्ति, तथापि तत्र संदिह्यमानत्वेन चमकारोऽस्तीति ततोऽस्य वैलक्षण्यम् ।