‘मुरारिनिर्गता नूनं नरके परिपन्थिनी ।
तवापि मूर्ध्नि गङ्गेव चक्रधारा पतिष्यति ।
अत्र मुरारिनिर्गतेति साधारणविशेषणहेतुका उपमा , नरकपरिपन्थिनीति श्लिष्टविशेषणसमुत्थश्चोपमाप्रतिभोत्पत्तिहेतुः श्लेषश्चैकस्मिन्निवशब्दे
प्रविष्टौ तस्योभयोपकारित्वात् । अत्र यथार्थश्लेषेण सहोपमायाः संकरस्तथा शब्दश्लेषेणापि सह दृश्यते यथा
‘सत्पूरुषद्योतितरङ्गशोभिन्यमन्दमारब्धमृदङ्गवाद्ये ।
उद्यानवापीपयसीव यस्यामेणीदृशो नाट्यगृहे रमन्ते ॥
अत्र पयसीव नाट्यगृहे रमन्ते इत्येतावतैव समुचितोपमा निष्पन्ना । सत्पूरुषद्योतितरङ्ग इति शब्दश्लेषेण सहैकस्मिन्नेव शब्दे शब्दालंकारयोः पुनरेकवाचकानुप्रवेशेन संकरः पूर्वमुदाहृतः । ‘राजति तटीयम्’ इत्यादिना । एकवाचकानुप्रवेशेनैव चात्र संकीर्णत्वम् ।
इह ह्येकानुप्रविष्टयोरलंकारयोनिश्चितत्वेन निबन्धनम् । एकवाचकानुप्रविष्टत्वेन चालंकारयोः संसृष्ट्वेन चारुतातिशयोषजन इति नैवैकहेतुकत्वेन संकरोपमतयोरिवेत्युक्त्या नास्याभावो वाच्यः । न हि यमकयोः संसृष्टत्वेनैवावभासोऽस्तीति यथोक्तमेव युक्तम् । अर्थश्लेषेणेति । नरकशब्दस्य दानवनिरयार्थकत्वात। द्योतितरति शब्दस्य सभङ्गत्वान्छब्दश्लेषः । न चास्योदाहरणद्वयमेतयुक्तम् । उपमाप्रतिभोत्पतिहेतुकस्य श्लेषस्यैवात्रालंकारत्वात् । उपमा हि श्लेषस्य हेतुत्वेनैव गता । तां विना तस्या अनुत्थानात् । अतश्च श्लेष एवात्र प्राधान्येनालंकारः । एवं न संकरः, एकस्यैवात्रालंकरस्य स्थितेः । तस्य च द्विप्रभृतीनां संसृतायामुक्तत्वात् । उदाहरणान्तरं यथा -‘अङ्के न्यस्योत्तमाङ्गं प्लवगबलपतेः पादमक्षस्य हर्तुः कृत्वोत्सङ्गे सलीलं त्वचि कनकमृगस्याङ्गमाधाय शेषम् । बाणं रक्षःकुलघ्नं प्रगुणितमनुजेमादरात्तीक्ष्णमक्ष्णः कोणेनैवेक्षमाणस्यदनुजवदने दत्तकर्णेऽयमास्ते । अत्रेदृगीश्वराणां स्वभाव इति स्वभावोक्तिः, दाशरथेश्च प्रत्यक्षायमाणवमिति भाविकमित्येकस्मिन्नेव वाचकेऽलंकारद्वयमनुप्रविष्टमित्ययं संकरः । अत्र च भाविकस्वभावोक्त्योरुपकार्योपकारकभावेनाङ्गाङ्गित्वेऽप्येकवाचकानुप्रवेशकृतो वैचित्र्यातिशयः प्रधानतया प्रतीयत इत्येतदुदाहरणत्वम् । अङ्गाङ्गिभावश्च भिन्नवाचकालंकारगतत्वेन लब्धावकाशोऽस्ति । अतो राजति तटीयम् इत्यादावेकवाचकानुप्रवेशोऽपि निरवकाश इति