पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/२०८

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०४
काव्यमाला ।


अत एव व्यवस्थितत्वमन्यानुभाषितमप्रयोजनकम् । तुल्यजातीययोरप्यलंकारयोरेकवाचकानुप्रवेशे संभवात् । शब्दार्थवर्त्यलंकारसंकरस्तु भट्टोद्भटप्रकाशितः संसृष्टावन्तर्भावित इति त्रिप्रकार एव संकर इह प्रदर्शितः। इदानीमुपसंहारसूत्रम्---

एवमेते शब्दार्थोभयालंकाराः संक्षेपतः सूत्रिताः।

एवमिति पूर्वोक्तप्रकारपरामर्शः । एते इति प्रक्रान्तस्वरूपनिर्देशाः । सूत्रिता अलंकारसूत्रैः सूचिताः संक्षेपतः प्रकाशिताः ।

तत्र शब्दालंकारा यमकादयः । अर्थालंकारा उपमादयः । उभयालंकारा लाटानुप्रसादयः । संसृष्टिसंकरप्रकारयोरपि कयोश्चित्तद्रूपत्वात् ।


ततोऽस्य पृथग्भावः । अत एवेति । शब्दालंकारयोरेकवाचकानुप्रवेशात् । अन्येति । अन्यैः काव्यप्रकाशकारादिभिः । यदुक्तम्--‘स्फुटमेकत्र विषयं शब्दार्थालंकृतिद्वयम् । व्यवस्थितं च' इति । अप्रयोजनकमिति । तथानुभाषणं पुनर्न कश्चिद्दोष इति भावः । मुरारिनिर्गतेत्यादौ त्यर्थालंकारत्वात्सजातीययोरुपमाश्लेषयोः पूर्वोक्तनीत्या भिन्नविषयत्वेनास्यैकवाचकानुप्रवेशोऽस्तीत्यर्थः । एवं शब्दाश्रयत्वादर्थाश्रयत्वाच्च तुल्यजातीयानामलंकाराणामङ्गाङ्गिभावादिना संकर उक्तः । शब्दार्थवर्तिनामलंकाराणां पुनः संसर्गेणायमलंकार इत्याह—शब्दार्थेत्यादि । न केवलं काव्यप्रकाशकारेण शब्दार्थवर्तिनोरलंकारयोः संकर उक्तो यावदनेनापीति भावः । तदुक्तम्--'शब्दार्थवत्यलंकारवाक्य एकत्र भासिनः । संकरः ।' इति । संसृष्टाविति । अनयोर्ह्याश्रयभेदात्तिलतण्डुलन्यायेन स्पष्ट एव भेदावगम इत्यत्रैवान्तर्भावो युक्तः । त्रिप्रकार इति । अङ्गाङ्गिभावसंशयैकवाचकानुप्रवेशेन । यदुक्तम्--तेनासौ त्रिरूपः परिकीर्तितःइति । एवं संदेहसंकरस्यानुपपत्तावपि चिरंतनोक्तत्वादेवास्य ग्रन्थकृता त्रिप्रकारत्वमेवोक्तम् । अधुनैतेषामलंकाराणामुपसंहारं कर्तुमुपक्रमते--इदानीमित्यादिना । प्राप्तावसरेति । यथातत्त्वं सर्वेषामलंकाराणां निर्णीतत्वात् । तदेवाह-एवमित्यादि । एतदेव व्याचष्टे--एवमित्यादिना । संक्षेपेणेति । ग्रन्थस्य । न पुनरर्थस्य । तस्य हि तथात्वकथने तेषां स्वरूपमेव कथितं न स्यात् । एवं ग्रन्थसंक्षेपेणापि सर्वेषामलंकाराणां विस्तरत एव यथासंभवि स्वरूपमुक्तमिति प्राच्यालंकारग्रन्थेभ्योऽस्य वैलक्षण्यमपि ध्वनितम् । तत्र ग्रन्थविस्तरेणाप्येतत्स्वरूपस्यानभिधाननात् । अत एव ग्रन्थकारेण प्रयोजनमपि द्योतितम् । के ते शब्दार्थाभयालंकारा इत्याशङ्कयाह--तत्रेत्यादि । आदिग्रहणादनुप्रासानन्वयश्लेषादीनां ग्रहणम् । ननु च लाटानुप्रासश्लेषयेरेवोभयालंकारत्वे पूर्वमुक्त्वा उभयालंकारा इति बहुवचननिर्देशः कथं संगच्छते इत्याशङ्कयाह-संसृष्टीत्यादि । तत्र संसृष्टेरुभयालंंकारत्वं यथा -‘आनन्दमन्थर-