पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/२०९

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०५
अलङ्कारसर्वस्वम्


लोकवदाश्रयाश्रयिभावश्च तत्तदलंकारनिबन्धनम् । अन्वयव्यतिरेकौ तु } तकार्यत्वे प्रयोजकौ । न तदलंकारत्वे । तदलंकारप्रयोजकत्वे तु श्रौतोपमादेरपि शब्दालंकारत्वप्रसङ्गात् । तस्मादाश्रयाश्रयिभावेनैव चिरंतनमता नुसृतिरिति भद्रम् ॥

संपूर्णमिदमलंकारसर्वस्वम् । कृतिस्तत्रभवद्राजानकरुयय(च)कस्य ।


- इत्यादि । संकरस्य यथा—“मैवमेवास्वसच्छायकर्णिकाचारुवर्णिता। । अम्भोजिनीव चित्रस्था नेत्रमात्रसुखप्रदा ॥’ अत्र शब्दार्थालंकारसंसर्गादुभयालंकारत्वम् । संकरस्य चैतदुभयालंकारत्वमौद्भटमत एवावसेयम् । ग्रन्थकृता ह्यस्य समनन्तरमेय संस्रष्टावन्तर्भाव उक्तः । अतश्च ग्रन्थकृन्मते लाटानुप्राससंसृष्टिः । श्लेषाणामेवोभयालंकारत्वम् । ननु तुल्यत्वेऽपि काव्यशोभातिशयहेतुत्वे कश्चिदलंकार शब्दस्य कश्चिदर्थस्य कश्चिदुभयस्येति कुतः पुनरयं प्रतिनियम इत्याशङ्कयाह-लोकवदित्यादि । लोके हि योऽलंकारो यदाश्रितः स तदलंकारतयोच्यते, यथा कुण्डलादिः कर्णाद्याश्रितस्तदलंकारः । एवमिहापि

  • शब्दार्द्याश्रितस्तदलंकार इति सिद्ध एव विषयविभागरूपः प्रतिनियमः । यत्त्वन्यैरन्वयव्यतिरेकौ1 तदलंकारनिबन्धनवेनोक्तौ तदयुक्तमेवेत्याह-अन्वयेत्यादि । एवं हि श्रौतोपमायामिवादिशब्दान्वयव्यतिरेकानुवर्तनात्तत्कार्यमेव न पुनस्तदलंकारत्वम् । तस्याविशेषात् । अर्थस्य पुनरलंकृतत्वात्तदलंकारत्वमेव युक्तमिति तात्पर्यार्थः । एतच्चोद्भटविके राजान[क)तिलकेन सप्रपञ्चमुक्तमिति ग्रन्थविस्तरभयान्नेहास्मामिः प्रपञ्चितम् । एतदेवोपसंहरति--तस्मादित्यादि । आश्रयाश्रयिभावेनेति । उपस्कार्योपस्कारकभावेनेत्यर्थः । तेन योऽलंकारो यदुपस्कारः स तदलंकार इति पिण्डार्थः । चिरंतनेति ।

अनेनास्माभिः सर्वत्रैव तन्मतानुयातिरेव कृतेत्यात्माविषयमनौद्धत्यमपि ग्रन्थकृता प्रकाशितमिति शिवम् ॥ राजराज इति भूभुजामदग्रणीर्गुणिगणाश्रयः परम् । तां सतीसरसि राजहंसतामातनोत्किल घनागमेऽपि यः ॥ शक्राधिकश्रियस्तस्य श्रीश्रृङ्गार इति श्रुतः । गुणातिक्रान्ताधिषणो मन्त्रिणामग्रणीरभूत् ॥ तदात्मजन्मा वैदग्ध्यबन्धुर्जयरथाभिधः । व्यधादिदमसामान्यं श्रवणाभरणं सताम् ॥ यन्नाम किंचिदिह सम्यगथान्यथा वा साक्षादलंकृतिनयोचितमेतदुक्तम् । विद्वरोषमपसार्य बुधैः क्षणस्य तत्रावधेयमियतैव वयं कृतार्थाः ॥ इति श्रीजयरथविरचितालंकारविमर्शिनी संपूर्णा ॥