पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/२२

एतत् पृष्ठम् परिष्कृतम् अस्ति
२०
काव्यमाला ।

संख्यानियमे पूर्व छेकानुप्रासः ॥  द्वयोर्व्यञ्जनसमुदाययोः परस्परमनेकधा सादृश्यं संख्यानियमः । पूर्व व्यञ्जनसमुदायाश्रितं यथा-

‘किं नाम दर्दूर दुरध्यवसाय सायं
कायं निपीड्य निनदं कुरुषे रुषेव ।
एतानि केलिरसितानि सितच्छदाना
माकर्ण्य कर्णमधुराणि न लज्जितोऽसि ॥

 अत्र सायंशब्देनास्यालंकारस्य यकारमात्रसादृश्यापेक्षया वृत्त्यनुप्रासेन सहैकाभिधानलक्षणः संकरः । छेका विदग्धाः ।

 अन्यथा तु वृत्यनुप्रास ।  केवलव्यञ्जनमात्रसादृश्यमेकधा समुदायसादृश्यं त्र्यादीनां च परस्पर सादृश्यमन्यथाभावः । वृत्तिस्तु रसविषयो व्यापारः । तद्वती पुनर्वर्णरचनेह


रम्मि इन्दम्मि इन्दआलम्मि इन्दिअगणम्मि इन्दिन्दिरम्मि इन्दमि जोइण्णो सरिससंकंप्पो।' अत्र स्वरपौनरुक्त्यस्य चारुत्वाभावान्नालंकारत्वम् । अत्र केवलव्यञ्जनस्वरव्यञ्जनसमुदाया श्रितमलंकारद्वयं लक्षयति-संख्येत्यादिना । एकवचनस्य जात्या बहुत्वप्रसङ्गाद्वहुव चनस्य च त्र्यादीनां स्वयमेव बहुत्वात्संख्यानियमो द्वित्व एव संभवतीति द्वयोरित्युक्तम् । द्वयोरप्येकधा सादृश्यं बृत्यनुप्रास एवेत्याशङ्कयाह-अनेकधेति । यकारमात्रेत्यनेन द्वयो रेव सादृश्यमस्य जीवितमिति ध्वनितम् । यद्यपि चायं व्यञ्जनमात्रपौनरुक्त्याख्यस्य सामान्यलक्षणस्य संभवादनुप्रास एवान्यैरन्तर्भावितः तथाप्यस्य ग्रन्थकृता उद्भटम तानुरोधादिह लक्षणं कृतम्-अन्यथेत्यादि । एतदेव भेदनिर्देशं कुर्वन्व्याचष्टे– केवलेत्यादि । समुदायः पारिशेष्याझ्यञ्जनद्वयरूपः । एकधेति चात्रैव संवद्धव्यम् । केवलस्य त्र्यादीनां चानेकधापि सादृश्यस्यानेन व्याप्तत्वात् । एतच्च समस्तासमस्ताक्ष- रत्वेन संभवतीत्यस्य प्रायः षट् प्रकाराः । क्रमेण यथा —‘यया यायाय्यया यूयं यो यो यं येयायया । ययुयायि ययेयाय ययेयायाय याययुक्।।' असमस्ताक्षरं तु ग्रन्थकृतैवोदाह्र तम् । ‘दीनादीनां ददौ दानं निननाद दिने दिने । निन्दिन्द नन्दनानन्दानदुनोदिननन्द नम् ॥’ ‘रुच्याभिः प्रचुराभिस्तरुशिखरापाचिताभिरुचिताभिः । अचिररुचिरुचिररुचिभि श्विराचिरैराभिश्चमत्कृतं चेतः॥’ ‘ततः सोमसिते मासि सततं संमतं सताम् । अतामसो


१. ‘संकम्मा' क• २, ‘तत्र' ख. ३. ‘पारिशेषात्’ क. ४. ‘अनेकधेति' क. ५. ‘खूबानी' इति नान्ना कश्मीरादिषु प्रसिद्वैः फलविशेषेः. . ' } ।

हुँ