पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/२४

एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
काव्यमाला ।

‘यो यः पश्यति तत्रे रुचिरे वनजायते ।
तस्य तस्यान्यनेत्रेषु रुचिरेव न जायते ॥
इदं सार्थकत्वे । एवमन्यज्ज्ञेयम् ।
 शब्दार्थपौनरुक्त्यं प्ररूढं दोषः ।

 प्ररूढग्रहणं वक्ष्यमाणप्रभेदवैलक्षण्यार्थम् । यदाहुः-‘शब्दार्थयोः पुन र्वचनं पुनरुक्तमन्यत्रानुवादात् ।' इति ।


ग्यमिति चिरंतनालंकारवन्न विभज्य लक्षितमिति भावः । एवं चित्रेऽपि ज्ञेयम् । अन्य दिति प्रकारद्वयम् । तत्रानर्थकं यथा —‘सरसमन्थरतामरसादरभ्रमरसजलया नलिनी मधौ । जलधिदेवतया सदृशीं श्रियं स्फुटतरागतरागरुचिर्दधौ ॥' अत्र तरागेत्यनर्थकम् । अनर्थकत्वसार्थकत्वयोर्यथा-‘साहारं साहारं साहारं मुणइ सजसाहारम् । सं ताणं सं ताणं संताणं मोहसंताणम् ॥’ अत्र सजसाहारमित्यनर्थकम् । अन्यानि तु सार्थकानीति न कश्चिद्दोषः । इदं च स्थाननियममन्तरेण न भवति । यदुक्तम्-‘पदमनेकार्थमक्षरं चावृत्तं स्थाननियमे यमकम्’ इति । अत एव स्थाननियमाद्यमकमित्यस्यान्वर्थमभि धानम् । स च स्थाननियमो वैवक्षिको न वास्तव । यथा—‘मधुपराजिपराजित मानिनीजनमनःसुमनःसुरभि श्रियम् । अभृत वारितवारिदविप्लवां स्फुटितताम्रतताम्र वणं जगत् ॥’ अत्राक्षरद्वयानन्तरं यमकविन्यासात्स्थानस्य नियतत्वम् । यथा वा-- ‘छिन्द्याद्भयाति तव कार्तिकेयः शशी जितो येन स कार्तिकेयः । उत्खातदन्तो गणना यकस्य स्वामी यदन्यो गणनाय कस्य ॥’ अत्र चार्धद्वये यमकद्वयमिति स्थाननियमो द्विधैवेति नास्यालंकारस्य क्षतिः काचित् । अतश्च ‘श्रुतरसिक तरसिकलितरुकलितरुजा लहरिजालहरिणतमः(१) । हरिणतमश्च ततस्तव ततस्तवः स्याद्यशोराशिः ॥' इत्यत्र सत्वेऽपि स्वरव्यञ्जनसमुदायपौनरुक्त्यस्य स्थाननियमाभावाद्यमकाभासोऽयं वृत्यनुप्रासः । प्ररूढः मिति । यथाभासनं विश्रान्तेः । यथा-तदन्वये शुद्धिमति प्रसूतः शुद्धिमत्तमः । दि लीप इति राजेन्दुरिन्दुः क्षीरनिधाविव ॥’ अत्रेन्दुरिति । अत्रिनेत्रक्षीरोदजन्मत्वादिन्दो र्द्वित्वान्नैतत्प्ररूढमिति न कार्यम् । कविसमये तथात्वस्याप्रतीतेः । आहुरित्याक्षपादाः । अन्यत्रानुवादादिति । अनुवादे हि शब्दार्थयोः पुनर्वचनं क्रियमाणं न दोषाय । अक्रियमाणं पुनर्दोषाय भवतीति भावः । यथा-‘उदेति रक्तः सविता रक्त एवास्तमेति च । संपत्तौ च विपत्ती च महतामेकरूपता।’ अत्र रक्त इति । ‘शिरः शार्वे स्वर्गात्पशुप तिशिरस्तः क्षितिधरं महीध्रादुत्तुङ्गादवनिमवनेश्चापि जलधिम् । अधोघो गङ्गावद्वयमुपगता नूनमथवा विवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥’ अत्र पौनरुक्त्येऽपि शब्दस्या


१. ‘श्रुतरसिक तरसिकलितं तरुकलिततरुजालहरिणतमः' ख. २. ‘भासमानं' ख.