पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/२५

एतत् पृष्ठम् परिष्कृतम् अस्ति
२३
अलङ्कारसर्वस्वम्



तात्पर्यभेदवत्तु लाटानुप्रासः ।

तात्पर्यमन्यपरत्वम् । तदेव भिद्यते, न तु शब्दार्थयोः स्वरूपम्। यथा -

‘ताला जाअन्ति गुणा जाला दे सहिअएहि घेप्पन्ति ।
रइकिरणाणुगाहेि आईं होन्ति कमलाइँ कमलाइँ ।’
‘बूमः कियन्नय कथंचन कालमल्प
मत्राब्जपत्रनयने नयने निर्मील्य ।
हेमाम्बुजं तरुणि तत्तरसापत्दृत्य
देवद्विषोऽयमहमागत इत्यवैहेि ।।'

 अत्राब्जपत्रनयने नयने निमील्येत्यादौ विभक्त्यादेरपौनरुक्त्येऽपि ब
हुतरशब्दाथपौनरुक्त्याल्लाटानुप्रास्सत्वमेव ।

‘काशाः काशा इवाभान्ति(न्तः) सरांसीव सरांसि च ।
चेतांस्याचिक्षिपुर्यूनां निम्नगा निम्नगा इव ॥'


पुनर्वचनं प्रतीत्यन्तरजनकत्वाद्दोषः । तदेवाप्ररूढमलंकार इत्याह-तात्पर्येत्यादि । अन्यपरत्वमिति । एकस्य वाच्यविश्रान्तत्वेऽन्यस्य लक्ष्ये व्यङ्गये वार्थे वाच्यविश्रा न्तिरित्यर्थः । भिद्यत इति पर्यवसाने । आमुखे हि शब्दवदर्थस्याप्येकत्वेनैवावभासः । अत एवाह-न शब्दार्थस्वरूपमिति । एवं च नायं द्वयोर्वाच्यविश्रान्तत्वेऽनुवादमात्रमलं कारः । नहि दोषाभावमात्रमलंकारस्वरूपम् । एवं हि सत्यपशब्दाद्यभावस्याप्यलंकारत्वप्र सङ्गः । यत्परमादावुक्तं तत्परमेव पुनच्यते । इत्येव सामान्येन यद्यप्यन्यपरत्वमुच्यते तद्विरो धादिवत् ‘उदेति रक्तः सविता-' इत्यादौ दोषाभावमात्रत्वेऽप्यलंकारत्वोचितस्यान्यपरत्वा ख्यस्यातिशयस्यापि भावादलंकारत्वप्रसङ्गः । न चैतावतैव कश्चिदतिशयः प्रतीयत इति - थोक्तमेव युक्तम् । एकः कमलशब्दो वाच्यपर्यवसितः अन्यश्च सौरभबन्धुरत्वाद्यनेकधर्मनिष्ठ इति तात्पर्यभेदः । ब्रूमः कियदिति । अत्राब्जशब्दस्याप्यपौनरुक्त्याल्लाटानुप्रासत्वमेवेति चिन्त्यम् । अत्र हि द्वयोरपि नयनशब्दयोर्वाच्यविश्रान्तत्वादन्यपरत्वाभावान्नास्ति तात्प र्यभेदः । स एव ह्यस्य जीवितम् । अन्यथा ह्यनुप्रासमात्रत्वं स्यान्नालंकारत्वम् । अथापि केवलनयनशब्दस्य स्वार्थविश्रान्तिः संसर्गपदान्तर्गतस्य पुनः स्वार्थमुपसर्जनीकृत्य संज्ञि नमभिदधतश्च स्वार्थत्यागात्परार्थे च वृत्तेरस्येव लक्ष्यनिष्ठत्वमिति चैत्, नैतत् । लक्षणासा मन्यभावात् । अत्र ह्यन्यपदार्थप्रधानत्वान्नयनशब्दस्य गुणीभावः, न मुख्यार्थबाधः । स्वार्थ एव विश्रान्तेः । न च गुणीभावमुख्यार्थबाधयोरेकत्वम् । सतो हि मुख्यार्थस्य कंचिदपेक्ष्य


१. ‘न शब्दार्थस्वरूपम्’ इति टीकासंमतः पाठो भाति. २ क-पुस्तक ‘काशाः काशा इवेत्यादौ' एतावदेवास्ति.


१. ‘प्रयोक्तुमेव ज्यायः' ख.